2026-05-06 06:30:20 by ambuda-bot
This page has not been fully proofread.
६३४
r
बृहदारण्यकोपनिषद्भाष्ये
[ब्रा. ४.
किं तर्हि तस्य लोकः सर्वः ; किमन्यो लोकः अन्योऽसावि-
त्युच्यते - स उ लोक एव; लोकशब्देन आत्मा उच्यते ;
तस्य सर्व आत्मा, स च सर्वस्यात्मेत्यर्थः । य एष ब्राह्मणेन
प्रत्यगात्मा प्रतिबुद्धतया अनुवित्त: आत्मा अनर्थसंकटे गहने
प्रविष्टः, स न संसारी, किं तु पर एव; यस्मात् विश्वस्य
कर्ता सर्वस्य आत्मा, तस्य च सर्व आत्मा । एक एवाद्वि-
तीय: पर एवास्मीत्यनुसंधातव्य इति श्लोकार्थः ॥
इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवे-
दिर्महती विनष्टिः । ये तद्विदुरमृतास्ते
भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १४ ॥
॥ ॥
'
किं च इहैव अनेकानर्थसंकुले, सन्तः भवन्तः अज्ञानदी -
निद्रामोहिताः सन्तः कथंचिदिव ब्रह्मतत्त्वम् आत्मत्वेन
अथ विद्मः विजानीमः, तत् एतद्ब्रह्म प्रकृतम् ; अहो वयं
कृतार्था इत्यभिप्रायः । यदेतद्ब्रह्म विजानीमः, तत् न चेत्
विदितवन्तो वयम् - वेदनं वेद:, वेदोऽस्यास्तीति वेदी, वे-
aa वेदिः, न वेदिः अवेदि:, तत: अहम् अवेदिः स्याम् ।
यदि अवेदिः स्याम् को दोषः स्यात् ? महती अनन्तपरि-
माणा जन्ममरणादिलक्षणा विनष्टि: विनशनम् । अहो व
यम् अस्मान्महतो विनाशात् निर्मुक्ताः, यत् अद्वयं ब्रह्म
"