2026-05-06 06:30:19 by ambuda-bot
This page has not been fully proofread.
क. १३.]
चतुर्थोऽध्यायः ।
६३३
एष्टव्यं फलम्,
न चाप्यात्मनोऽन्यः अस्ति, यस्य
कामाय इच्छति, सर्वस्य आत्मभूतत्वात् ; अतः कि-
मिच्छन् कस्य कामाय शरीरमनुसंज्वरेत्, भ्रंशेत्, शरीरो-
पाधिकृत दुःखमनु दुःखी स्थात्, शरीरतापमनुतप्येत ।
अनात्मदर्शिनो हि तद्व्यतिरिक्तवस्त्वन्तरेप्सोः ; ' ममेदं स्यात्,
पुत्रस्य इदम् भार्याया इदम्' इत्येवमीहमान: पुन: पुनर्ज-
ननमरणप्रबन्धरूढः शरीररोगमनु रुज्यते ; सर्वात्मदर्शिनस्तु
तदसंभव इत्येतदाह ॥
'
यखानुवित्तः प्रतिबुद्ध आत्मास्मिन्सं-
देह्ये गहने प्रविष्टः । स विश्वकृत्स हि
सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥
किं च यस्य ब्राह्मणस्य, अनुवित्त: अनुलब्धः, प्रतिबुद्धः
साक्षात्कृतः, कथम् ? अहमस्मि परं ब्रह्मेत्येवं प्रत्यगात्मत्वे-
नावगतः, आत्मा अस्मिन्संदेहो संदेहे अनेकानर्थसंकटोपचये,
गहने विषमे अनेकशतसहस्रविवेकविज्ञानप्रतिपक्षे विषमे,
प्रविष्टः स यस्य ब्राह्मणस्यानुवित्तः प्रतिबोधेनेत्यर्थ: ; स
विश्वकृत् विश्वस्य कर्ता ; कथं विश्वकृत्त्वम् तस्य किं वि.
-
'
श्वकृदिति नाम इत्याशङ्क्याह- स हि यस्मात् सर्वस्य
कर्ता, न नाममात्रम् ; न केवलं विश्वकृत् परप्रयुक्तः सन्,