Proofing

This page has not been fully proofread.

६३२
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा.
 
च्यते— अनन्दाः अनानन्दाः असुखा नाम ते लोका:,
तेन अन्धेनादर्शनलक्षणेन तमसा आवृता: व्याप्ताः, - ते
तस्य अज्ञानतमसो गोचराः ; तान् ते प्रेत्य मृत्वा अभिग-
च्छन्ति अभियान्ति; के ? ये अविद्वांस; किं सामान्येन
अविद्वत्तामात्रेण ! नेत्युच्यते-- अबुधः, बुधेः अवगमना-
र्थस्य धातोः किप्प्रत्ययान्तस्य रूपम् आत्मावगमवर्जिता
इत्यर्थः ; जना: प्राकृता एव जननधर्माणो वा इत्येतत् ॥
 
आत्मानं चेद्विजानीयादयमस्मीति पू.
रुषः । किमिच्छन्कस्य कामाय शरीरम-
नुसंज्वरेत् ॥ १२ ॥
 
"
 
आत्मानं स्वं परं सर्वप्राणिमनीषितज्ञं हृत्स्थम् अशनाया-
दिधर्मातीतम् चेत् यदि, विजानीयात सहस्त्रेषु कश्चित् ;
चेदिति आत्मविद्याया दुर्लभत्वं दर्शयति ; कथम् ? अयम्
पर आत्मा सर्वप्राणिप्रत्ययसाक्षी, यः नेति नेतीत्याद्युक्तः,
यस्मान्नान्योऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता, ममः सर्व-
भूतस्थो नित्यशुद्धबुद्धमुक्तस्वभावः अस्मि भवामि -
इति पूरुषः पुरुषः सः किमिच्छन्- तत्स्वरूपव्यतिरिक्तम्
अन्यद्वस्तु फलभूतं किमिच्छन् कस्य वा अन्यस्य आत्मनो
व्यतिरिक्तस्य कामाय प्रयोजनाय न हि तस्य आत्मन
 
-