Proofing

This page has not been fully proofread.

क. ११.]
 
चतुर्थोऽध्यायः ।
 
६३१
 
तस्मात् यथाव्याख्यातमेव पुण्यकृत्त्वम् । अथवा यो ब्रह्म-
वित् तेन एति, स पुण्यकृत् तैजसश्च - इति ब्रह्मवित्स्तु-
तिरेषा पुण्यकृति तैजसे च योगिनि महाभाग्यं प्रसिद्धं
 
;
 
लोके, ताभ्याम् अतः ब्रह्मवित् स्तूयते प्रख्यातमहाभाग्य-
वाल्लोके ॥
 
अन्धं तमः प्रविशन्ति येऽविद्यामुपा
सते । ततो भूय इव ते तमो य उ वि-
द्यायाँ रताः ॥ १० ॥
 
अन्धम् अदर्शनात्मकं तमः संसारनियामकं प्रविशन्ति
प्रतिपद्यन्ते ; के ? ये अविद्यां विद्यातोऽन्यां साध्यसाधनल-
क्षणाम् उपासते, कर्म अनुवर्तन्त इत्यर्थः ; ततः तस्मादपि
 
,,
 
;
 
भूय इव बहुतरमिव तमः प्रविशन्ति के ? ये उ विद्यायाम्
अविद्यावस्तुप्रतिपादिकायां कर्मार्थायां त्रय्यामेव विद्यायाम्,
रता अभिरता: ; विधिप्रतिषेधपर एव वेदः, नान्योऽस्ति-
इति, उपनिषदर्थानपेक्षिण इत्यर्थः ॥
 
अनन्दा नाम ते लोका अन्धेन तम-
सावृताः । तास्ते प्रेत्याभिगच्छन्त्य -
द्वा सोऽबुधो जनाः ॥ ११ ॥
 
यदि ते अदर्शनलक्षणं तमः प्रविशन्ति को दोष इत्यु-