2026-05-06 06:30:18 by ambuda-bot
This page has not been fully proofread.
६३०
बृहदारण्यकोपनिषद्भाष्ये
-
[ब्रा. ४.
तस्मात् अयमेव मोक्षमार्गः– यः आत्मकामत्वेन आप्तका-
मतया सर्वकामक्षये गमनानुपपत्तौ प्रदीपनिर्वाणवत् चक्षु-
रादीनां कार्यकरणानाम् अत्रैव समवनय:--
इति एषः
ज्ञानमार्गः पन्थाः, ब्रह्मणा परमात्मस्वरूपेणैव ब्राह्मणेन
त्यक्तसर्वेषणेन, अनुवित्तः । तेन ब्रह्मविद्यामार्गेण ब्रह्म-
वित् अन्यः अपि एति । कीदृशो ब्रह्मवित् तेन एतीत्यु-
च्यते— पूर्वं पुण्यकृद्भूत्वा पुनस्त्यक्तपुत्रावेषणः, परमा-
त्मतेजस्यात्मानं संयोज्य तस्मिन्नभिनिर्वृत्तः तैजसश्व-
आत्मभूतः इहैव इत्यर्थः ; ईदृशो ब्रह्मवित् तेन मार्गेण एति ।
न पुनः पुण्यादिसमुच्चयकारिणो ग्रहणम्, विरोधादित्यवो-
चाम; ' अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः । शान्ता: सं-
न्यासिनो यान्ति तस्मै मोक्षात्मने नम:' इति च स्मृते: ;
' त्यज धर्ममधर्मे च' इत्यादि पुण्यापुण्यत्यागोपदेशात्; 'नि-
राशिषमनारम्भं निर्नमस्कारमस्तुतिम् । अक्षीणं क्षीणकर्माण
तं देवा ब्राह्मणं विदुः ' ' नैतादृशं ब्राह्मणस्यास्ति वित्तं
यथैकता समता सत्यता च । शीलं स्थितिर्दण्डनिधानमार्जवं
ततस्ततश्चोपरमः क्रियाभ्य: ' इत्यादिस्मृतिभ्यश्च । उपदेक्ष्यति
च इहापि तु-- ' एष नित्यो महिमा ब्राह्मणस्य न वर्धते
कर्मणा नो कनीयान्' इति कर्मप्रयोजनाभावे हेतुमुक्त्वा,
' तस्मादेवंविच्छान्तो दान्त:' इत्यादिना सर्वक्रियोपरमम् ।