2026-05-06 06:30:17 by ambuda-bot
This page has not been fully proofread.
६२८
,
बृहदारण्यकोपनिषद्भाष्ये
,
"
[ ब्रा. ४.
,
आत्मकामस्य ब्रह्मविदो मोक्ष इत्येतस्मिन्नर्थे मत्रब्राह्मणो-
के, विस्तरप्रतिपादका एते श्लोका भवन्ति । अणुः सूक्ष्मः
पन्थाः दुर्विज्ञेयत्वात्, विततः विस्तीर्णः, विस्पष्टतरणहेतु-
त्वाद्वा ' वितर:' इति पाठान्तरात्, मोक्षसाधनो ज्ञानमार्ग:
पुराण: चिरंतन: नित्यश्रुतिप्रकाशितत्वात् न तार्किकबु-
द्धिप्रभवकुदृष्टिमार्गवत् अर्वाक्कालिक:, मां स्पृष्टः मया लब्ध
इत्यर्थः ; यो हि येन लभ्यते स तं स्पृशतीव संबध्यते ; तेन
अयं ब्रह्मविद्यालक्षणो मोक्षमार्गः मया लब्धत्वात् 'मां स्पृष्ट:
इत्युच्यते । न केवलं मया लब्धः, किं तु अनुवित्तो मयैव ;
अनुवेदनं नाम विद्यायाः परिपाकापेक्षया फलाव खानतानिष्ठा
प्राप्तिः, भुजेरिव तृप्त्यवसानता; पूर्व तु ज्ञानप्राप्तिसंबन्धमा-
त्रमेवेति विशेषः । किम् असावेव मम्बदृक् एकः ब्रह्मविद्या-
फलं प्राप्तः, नान्यः प्राप्तवान् येन ' अनुवित्तो मयैव' इ-
त्यवधारयति नैष दोष:, अस्याः फलम् आत्मसाक्षिकमनुत्त
ममिति ब्रह्मविद्याया: स्तुतिपरत्वात्; एवं हि कृतार्थात्माभि-
मानकरम् आत्मप्रत्ययसाक्षिकम् आत्मज्ञानम्, किमतः परम्
अन्यत्स्थात्—— इति ब्रह्मविद्यां स्तौति ; न तु पुनः अन्यो
ब्रह्मवित् तत्फलं न प्राप्नोतीति, 'तद्यो यो देवानाम्' इति
सर्वार्थश्रुतेः; तदेवाह - तेन ब्रह्मविद्यामार्गेण धीराः प्रज्ञा-
वन्तः अन्येऽपि ब्रह्मविद इत्यर्थः, अपियन्ति अपिगच्छन्ति,
'