2026-05-06 06:30:17 by ambuda-bot
This page has not been fully proofread.
क. ८.]
चतुर्थोऽध्यायः ।
६२७
श्रुतमप्यर्थं पुनर्मन्त्रैः शुश्रूषति ; अतो न सर्वमेव निवेदयति ;
श्रुत्वाभिप्रेतं याज्ञवल्क्यात् पुनरन्ते निवेदयिष्यामीति हि
मन्यते ; यदि चात्रैव सर्व निवेदयामि, निवृत्ताभिलाषोऽयं
श्रवणादिति मत्वा श्लोकान् न वक्ष्यति इति च भयात्
"
-
सहस्रदानं शुश्रूषालिङ्गज्ञापनायेति । सर्वमप्येतत् असत्
पुरुषस्येव प्रमाणभूतायाः श्रुतेः व्याजानुपपत्तेः ; अर्थशेषो-
पपत्तेश्व - विमोक्षपदार्थे उक्तेऽपि आत्मज्ञानसाधने, आत्म-
ज्ञानशेषभूतः सर्वैषणापरित्यागः संन्यासाख्यः वक्तव्योऽर्थ-
शेषः विद्यते ; तस्मात् श्लोकमात्रशुश्रूषा कल्पना अनुज्वी ; अ
गतिका हि गतिः पुनरुक्तार्थकल्पना; सा च अयुक्ता सत्यां
गतौ । न च तत् स्तुतिमात्रमित्यवोचाम । ननु एवं सति ' अत
ऊर्ध्वं विमोक्षायैव' इति वक्तव्यम् - नैष दोष:; आत्मज्ञा-
नवत् अप्रयोजकः संन्यासः पक्षे, प्रतिपत्तिकर्मवत् - इति
हि मन्यते ; ' संन्यासेन तनुं त्यजेत्' इति स्मृतेः । साधन-
त्वपक्षेऽपि न 'अत ऊर्ध्वं विमोक्षायैव' इति प्रश्नमर्हति
मोक्षसाधनभूतात्मज्ञानपरिपाकार्थत्वात् ॥
तदेते श्लोका भवन्ति । अणुः पन्था
विततः पुराणो माँ स्पृष्टोऽनुवित्तो मयै-
व । तेन धीरा अपियन्ति ब्रह्मविदः स्वर्ग
लोकमित ऊर्ध्वं विमुक्ताः ॥ ८ ॥