2026-05-06 06:30:17 by ambuda-bot
This page has not been fully proofread.
६२६
बृहदारण्यकोपनिषद्भाष्ये
[ब्रा. ४.
मुक्तः सर्वात्मभूतः सर्पवत् तत्रैव वर्तमानोऽपि अशरीर एव,
न पूर्ववत् पुनः सशरीरो भवति । कामकर्मप्रयुक्तशरीरात्म-
भावेन हि पूर्व सशरीर मर्त्यश्च तद्वियोगात् अथ इदानीम्
;
प्राणितीति प्राण:-
' प्राण-
अशरीरः, अत एव च अमृत: ; प्राण:,
' प्राणस्य प्राणम्' इति हि वक्ष्यमाणे श्लोके,
बन्धनं हि सोम्य मन:' इति च श्रुत्यन्तरे ; प्रकरणवाक्य-
सामर्थ्याच्च पर एव आत्मा अत्र प्राणशब्दवाच्यः ; ब्रह्मैव
परमात्मैव । किं पुर्नस्तत् ? तेज एव विज्ञानम् ज्योति:, येन
आत्मज्योतिषा जगत् अवभास्यमानं प्रज्ञानेत्रं विज्ञानज्योति -
ष्मत् सत् अविभ्रंशत् वर्तते । यः कामप्रश्नो विमोक्षार्थ:
याज्ञवल्क्येन वरो दत्तो जनकाय सहेतुकः बन्धमोक्षार्थल-
क्षणः दृष्टान्तदाष्टन्तिकभूतः स एष निर्णीतः सविस्तर : जन-
कयाज्ञवल्क्याख्यायिकारूपधारिण्या श्रुत्या; संसारविमोक्षो -
पाय उक्तः प्राणिभ्यः । इदानीं श्रुतिः स्वयमेवाह - विद्यानि -
क्रयार्थ जनकेनैवमुक्तमिति; कथम् ? सोऽहम् एवं विमोक्षि-
तस्त्वया भगवते तुभ्यं विद्यानिष्क्रयार्थे सहस्रं ददामि -
इति ह एवं किल उवाच उक्तवान् जनको वैदेहः । अत्र कस्मा --
द्विमोक्षपदार्थे निर्णीते, विदेहराज्यम् आत्मानमेव च न निवे-
दयति, एकदेशोक्ताविव सहस्रमेव ददाति ? तत्र कोऽभिप्राय
इति । अत्र केचिद्वर्णयन्ति -- अध्यात्मविद्यारसिको जनक:-