2026-05-06 06:30:16 by ambuda-bot
This page has not been fully proofread.
क. ७.]
"
चतुर्थोऽध्यायः ।
६२५
यस्मिन्काले सर्वे समस्ताः कामा: तृष्णाप्रभेदाः प्रमुच्यन्ते,
आत्मकामस्य ब्रह्मविदः समूलतो विशीर्यन्ते, ये प्रसिद्धा
लोके इहामुत्रार्थाः पुत्रवित्तलोकैषणालक्षणाः अस्य प्रसिद्धस्य
पुरुषस्य हृदि बुद्धौ श्रिता: आश्रिता:- अथ तदा, मर्त्यः
मरणधर्मा सन् कामवियोगात्समूलतः, अमृतो भवति ;
अर्थात् अनात्मविषया: कामा अविद्यालक्षणा: मृत्यवः इत्ये-
तदुक्तं भवति; अत: मृत्युवियोगे विद्वान् जीवन्नेव अमृतो
भवति । अत्र अस्मिन्नेव शरीरे वर्तमान: ब्रह्म समश्नुते,
ब्रह्मभावं मोक्षं प्रतिपद्यत इत्यर्थः । अतः मोक्षः न देशान्त-
रगमनादि अपेक्षते । तस्मात् विदुषो नोत्क्रामन्ति प्राणा:,
यथावस्थिता एव स्वकारणे पुरुषे समवनीयन्ते ; नाममात्रं
हि अवशिष्यते - इत्युक्तम् । कथं पुनः समवनीतेषु प्राणेषु,
देहे च स्वकारणे प्रलीने, विद्वान् मुक्त: अत्रैव सर्वात्मा सन्
वर्तमानः पुनः पूर्ववत् देहित्वं संसारित्वलक्षणं न प्रतिप-
द्यते— इत्यत्रोच्यते-- तत् तत्र अयं दृष्टान्त: ; यथा लोके
अहिः सर्पः, तस्य निर्व्वयनी, निर्मोकः, सा अहिनियनी,
वल्मीके सर्पाश्रये वल्मीकादावित्यर्थः, मृता प्रत्यस्ता प्रक्षिप्ता
अनात्मभावेन सर्पेण परित्यक्ता, शयीत वर्तेत - एवमेव,
यथा अयं दृष्टान्तः, इदं शरीरं सर्पस्थानीयेन मुक्तेन अना-
त्मभावेन परित्यक्तं मृतमिव शेते । अथ इतर : सर्पस्थानीयो