Proofing

This page has not been fully proofread.

६२४
 
-बृहदारण्यकोपनिषद्भाष्ये
 
[ ब्रा. ४.
 
च उक्त्वा उपसंहृतं प्रकरणम्- ' इति नु कामयमान:
इति । 'अथाकामयमान: ' इत्यारभ्य सुषुप्रदृष्टान्तस्य दाष्ट-
न्तिकभूतः सर्वात्मभावो मोक्ष उक्तः । मोक्षकारणं च आ-
त्मकामतया यत् आप्तकामत्वमुक्तम्, तच्च सामर्थ्यात् न
आत्मज्ञानमन्तरेण आत्मकामतया आप्तकामत्वमिति - सा-
मर्थ्यात् ब्रह्मविद्यैव मोक्षकारणमित्युक्तम । अतः यद्यपि
कामो मूलमित्युक्तम, तथापि मोक्षकारणविपर्ययेण बन्ध-
कारणम् अविद्या इत्येतदपि उक्तमेव भवति । अत्रापि मोक्षः
मोक्षसाधनं च ब्राह्मणेनोक्तम् तस्यैव दृढीकरणाय मन्त्र
उदायिते श्लोकशब्दवाच्यः-
 
तदेष श्लोको भवति । यदा सर्वे प्रमु
च्यन्ते कामा येsस्य हृदि श्रिताः । अथ
मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति ।
तद्यथाहिनियनी वल्मीके मृता प्रत्य-
स्ता शयीतैवमेवेद५ शरीर शेतेऽथाय-
मशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव
सोऽहं भगवते सहस्रं ददामीति होवाच
जनको वैदेहः ॥ ७ ॥
 
तत् तस्मिन्नेवार्थे एवं श्लोक: मन्त्रो भवति । यदा