2026-05-06 06:30:14 by ambuda-bot
This page has not been fully proofread.
क. ६.]
चतुर्थोऽध्यायः ।
,
६२३
,
यस्तु एवंदर्शी, तं ज्ञम् अमुग्धं प्रतिजानीमहे वयम् । तथ
व्यासेनोक्तम् - इच्छादि कृत्स्नं क्षेत्रं क्षेत्री प्रकाशयतीति:
'समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्य-
न्तम्--' इत्यादि शतश उक्तम् । तस्मात् न आत्मन: स्व-
तः बद्धमुक्तज्ञानाज्ञानकृतो विशेषः अस्ति, सर्वदा समैकर-
सस्वाभाव्याभ्युपगमात् । ये तु अतोऽन्यथा आत्मवस्तु प-
रिकल्प्य बन्धमोक्षादिशास्त्रं च अर्थवादमापादयन्ति ते उ-
त्सहन्ते - खेऽपि शाकुनं पदं द्रष्टुम् खं वा मुष्टिना आ-
क्रष्टुम्, चर्मवद्वेष्टितुम्; वयं तु तत् कर्तुमशक्ता: ; सर्वदा
समैकरसम् अद्वैतम् अविक्रियम् अजम् अजरम् अमरम् अ-
मृतम् अभयम् आत्मतत्त्वं ब्रह्मैव स्मः-- इत्येष सर्ववेदान्त-
निश्चितोऽर्थ इत्येवं प्रर्तिपद्यामहे । तम्मात् ब्रह्माध्येतीति उप-
चारमात्रमेतत्, विपरीतग्रहव देहसंततेः विच्छेदमात्रं विज्ञा-
नफलमपेक्ष्य ॥
"
स्वप्नबुद्धान्तगमनदृष्टान्तस्य दाष्टन्तिकः संसारो वर्णि-
तः । संसारहेतुश्च विद्याकर्म पूर्वप्रज्ञा वर्णिता । यैश्व उपाधि-
भूतैः कार्यकरणलक्षणभूतैः परिवेष्टितः संसारित्वमनुभवति,
तानि चोक्तानि । तेषां साक्षात्प्रयोजको धर्माधर्माविति पूर्व-
पक्षं कृत्वा, काम एवेत्यवधारितम् । यथा च ब्राह्मणेन अ-
यम् अर्थः अवधारितः, एवं मन्त्रेणापीति बन्धं बन्धकारणं
S. B. U.II. 18