2026-05-06 06:30:15 by ambuda-bot
This page has not been fully proofread.
६२२
बृहदारण्यकोपनिषद्भाष्ये
[ ब्रा. ४.
स्वतः अविद्याकर्तृत्वस्य प्रतिषिद्धत्वात्; अनेकव्यापारसंनि-
पातजनितत्वाश्च अविद्याभ्रमस्य ; विषयत्वोपपत्तेश्च ; यस्य
च अविद्याभ्रमो घटादिवत् विविक्तो गृह्यते, सः न अ-
विद्याभ्रमवान् । अहं न जाने मुग्धोऽस्मीति प्रत्ययदर्शनात्
अविद्याभ्रमवत्त्वमेवेति चेत्, न तस्यापि विवेकग्रहणात्;
न हि यो यस्य विवेकेन ग्रहीता, स तस्मिन्भ्रान्त इत्युच्य -
ते; तस्य च विवेकग्रहणम्, तस्मिन्नेव च भ्रमः - इति विप्रति-
षिद्धम् ; न जाने मुग्धोऽस्मीति दृश्यते इति ब्रवीषि -
तद्दर्शिनश्च अज्ञानं मुग्धरूपता दृश्यत इति च- तद्दर्शनस्य
विषयो भवति, कर्मतामापद्यत इति तत् कथं कर्मभूतं
सत् कर्तृस्वरूपदृशिविशेषणम् अज्ञानमुग्धते स्याताम् ? अथ
दृशिविशेषणत्वं तयोः, कथं कर्म स्याताम् - दृशिना व्याप्ये-
ते ? कर्म हि कर्तृक्रियया व्याप्यमानं भवति ; अन्यश्च व्या-
प्यम्, अन्यत् व्यापकम् ; न तेनैव तत् व्याप्यते ; वद,
कथम् एवं सति, अज्ञानमुग्धते दृशिविशेषणे स्याताम् ?
न च अज्ञानविवेकदर्शी अज्ञानम् आत्मनः कर्मभूतमुपलभ-
मानः उपलब्धधर्मत्वेन गृह्णाति, शरीरे कार्श्यरूपादिवत् तथा ।
सुखदुःखेच्छाप्रयत्नादीन् सर्वो लोकः गृह्णातीति चेत्,
तथापि ग्रहीतुर्लोकस्य विविक्ततैव अभ्युपगता स्यात् । न
जानेऽहं त्वदुक्तं मुग्ध एव इति चेत्-- भवतु अज्ञो मुग्ध:,