Proofing

This page has not been fully proofread.

'
 
चतुर्थोऽध्यायः ।
 
=
 
६२१
 
,
 
क. ६.]
ब्धिव्यवधानात् अनात्मभूतं तदिति, अन्यतोऽभिव्यक्तिप्रस-
ङ्गः ; तथा च अभिव्यक्तिसाधनापेक्षता । उपलब्धिसमानाश्र-
यत्वे तु व्यवधानकल्पनानुपपत्तेः सर्वदा अभिव्यक्ति:, अन-
भिव्यक्तिर्वा ; न तु अन्तरालकल्पनायां प्रमाणमस्ति । न च
समानाश्रयाणाम् एकस्य आत्मभूतानां धर्माणाम् इतरेतरवि-
षयविषयित्वं संभवति विज्ञानसुखयोश्च प्रागभिव्यक्तेः सं-
सारित्वम् अभिव्यक्त्युत्तरकालं च मुक्तत्वं यस्य सोऽन्यः
परस्मात् नित्याभिव्यक्तज्ञानस्वरूपात् 'अत्यन्तवैलक्षण्यात्,
शैत्यमिव औष्ण्यात्; परमात्मभेदकल्पनायां च वैदिकः
कृतान्त: परित्यक्तः : स्यात् । मोक्षस्य इदानीमिव निर्विशे-
शेषत्वे तदर्थाधिकयत्नानुपपत्तिः शास्त्रवैयर्थ्यं च प्राप्नोतीति
चेत् न, अविद्या भ्रमापोहार्थत्वात् न हि वस्तुतो मु-
क्तामुक्तत्व विशेषोऽस्ति, आत्मनो नित्यैकरूपत्वात् ; किंतु तद्वि-
षया अविद्या अपोह्यते शास्त्रोपदेशजनितविज्ञानेन ; प्राक्तदु-
पदेशप्राप्तेः तदर्थश्च प्रयत्न उपपद्यत एव । अविद्यावत : अविद्या-
निवृत्त्यनिवृत्तिकृतः विशेष: आत्मनः स्यादिति चेत्, न,
अविद्या कल्पनाविषयत्वाभ्युपगमात् रज्जूषरशुक्तिका गग-
 
नानां सर्पोदकरजतमलिनत्वादिवत्, अदोष इत्यवोचाम ।
तिमिरातिमिरदृष्टिवत् अविद्याकर्तृत्वाकर्तृत्वकृत आत्मनो वि-
शेषः स्यादिति चेत्, न, ' ध्यायतीव लेलायतीव' इति