Proofing

This page has not been fully proofread.

६२०
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ ब्रा. ४.
 
क्षया व्यवधानापगमे दृष्टेरभिव्यज्येते; तदपेक्षया भ्रान्तिरु-
पजायते-- ज्वलनपूर्वकौ एतौ उष्णप्रकाशौ धर्मों जाता-
विति । यदि उष्ण प्रकाशयोरपि स्वाभाविकत्वं न स्यात् - यः
स्वाभाविकमेर्धर्मः तमुदाहरिष्यामः न च स्वाभाविको
धर्म एव नास्ति पदार्थानामिति शक्यं वक्तुम् ॥
 
"
 
न च निगडभङ्ग इव अभावभूतो मोक्षः बन्धननिवृत्ति-
रुपपद्यते, परमात्मैकत्वाभ्युपगमात् 'एकमेवाद्वितीयम्'
इति श्रुतेः न चान्यो बद्धोऽस्ति यस्य निगडनिवृत्तिवत्
 
;
 
"
 
'
 
बन्धननिवृत्तिः मोक्षः स्यात्; परमात्मव्यतिरेकेण अन्यस्या-
भावं विस्तरेण अवादिष्म । तस्मात् अविद्यानिवृत्तिमात्रे
मोक्षव्यवहार इति च अबोचाम यथा रज्ज्वादौ सर्पाद्यज्ञा-
ननिवृत्तौ सर्पादिनिवृत्तिः ॥
 
"
 
F
 
येऽप्याचक्षते - मोक्षे विज्ञानान्तरम् आनन्दान्तरं च
अभिव्यज्यत इति, तैर्वक्तव्यः अभिव्यक्तिशब्दार्थः । यदि
तावत् लौकिक्येव उपलब्धिविषयव्याप्तिः अभिव्यक्तिश-
ब्दार्थ:, ततो वक्तव्यम् - किं विद्यमानमभिव्यज्यते, अविद्य-
मानमिति वा । विद्यमानं चेत्, यस्य मुक्तस्य तदभिव्य-
ज्यते तस्य आत्मभूतमेव तत् इति, उपलब्धिव्यवधानानुप-
पत्तेः नित्याभिव्यक्तत्वात्, मुक्तस्य अभिव्यज्यत इति विशे-
वचनमनर्थकम् । अथ कदाचिदेव अभिव्यज्यते, उपल-