2026-05-06 06:30:12 by ambuda-bot
This page has not been fully proofread.
क. ६.]
चतुर्थोऽध्यायः ।
६१९
•
सः इहैव ब्रह्म,
यद्यपि देहवानिव लक्ष्यते ; स ब्रह्मैव सन् ब्रह्म
अप्येति । यस्मात् न हि तस्य अब्रह्मत्वपरिच्छेदहेतवः कामाः
सन्ति, तस्मात् इहैव ब्रह्मैव सन् ब्रह्म अप्येति न शरीरपा-
तोत्तरकालम् । न हि विदुषो मृतस्य भावान्तरापत्तिः जीव-
तोऽन्यः भाव:, देहान्तर प्रतिसंघानाभावमात्रेणैव तु ब्रह्माप्ये-
तीत्युच्यते । भावान्तरापत्तौ हि मोनस्य सर्वोपनिषद्विवक्षि
तोऽर्थः आत्मैकत्वाख्यः स बाधितो भवेत् कर्महेतुकश्च
मोक्षः प्राप्नोति, न ज्ञाननिमित्त इति ; स चानिष्ट: ; अनि-
त्यत्वं च मोक्षस्य प्राप्नोति न हि क्रियानिर्वृत्तः अर्थः
नित्यो दृष्टः ; नित्यश्च मोक्षोऽभ्युपगम्यते, ' एष नित्यो
महिमा' इति मन्त्रवर्णात् । न च स्वाभाविकात् स्वभावात्
अन्यत् नित्यं कल्पयितुं शक्यम् । स्वाभाविकश्चेत् अग्न्यु-
ष्णवत् आत्मन: स्वभाव:, स न शक्यते पुरुषव्यापारानुभा-
वीति वक्तुम् ; न हि अग्नेरौष्ण्यं प्रकाशो वा अग्निव्यापा-
रानन्तरानुभावी ; अग्निव्यापारानुभावी स्वाभाविकश्चेति वि-
प्रतिषिद्धम् । ज्वलनव्यापारानुभावित्वम् उष्ण प्रकाशयोरिति
चेत्, न, अन्योपलब्धिव्यवधानापगमाभिव्यक्त्यपेक्षत्वात् ;
ज्वलनादिपूर्वकम् अग्भिः उष्णप्रकाशगुणाभ्यामभिव्यज्यते,
तत् न अग्न्यपेक्षया; किं तर्हि अन्यदृष्टेः अरौष्ण्यप्रकाशौ
धर्मों, व्यवहितौ, कस्यचिद्दृष्टया तु असंबध्यमानौ, ज्वलनापे-