Proofing

This page has not been fully proofread.

, ६१८
 
बृहदारण्यकोपनिषद्भाष्ये
 
"
 
[ ब्रा. ४.
 
शिनः कामयितव्याभावात्कर्मानुपपत्तिः । ये तु प्रत्यवाय-
परिहारार्थं कर्म कल्पयन्ति ब्रह्मविदोऽपि तेषां न आत्मैव
सर्व भवति, प्रत्यवायस्य जिहासितव्यस्य आत्मनोऽन्यस्य
अभिप्रेतत्वात् । येन च अशनायाद्यतीतः नित्यं प्रत्य-
वायासंबद्ध: विदित आत्मा, तं वयं ब्रह्मविदं ब्रूमः ; नित्य-
मेव अशनायाद्यतीतमात्मानं पश्यति ; यस्माच्च जिहासित-
व्यमन्यम् उपादेयं वा यो न पश्यति, तस्य कर्म न श-
क्यत एव संबन्धुम् । यस्तु अब्रह्मवित्, तस्य भवत्येव प्रत्य-
वायपरिहारार्थं कर्मेति न विरोधः अत: कामाभावात्
अकामयमानो न जायते, मुच्यत एव ॥
 
;
 
तस्य एवमकामयमानस्य कर्माभावे गमनकारणाभावात्
प्राणा वागादयः, नोत्क्रामन्ति नोर्ध्व कामन्ति देहात् । स
च विद्वान् आप्तकामः आत्मकामतया इहैव ब्रह्मभूत: ।
सर्वात्मनो हि ब्रह्मणः दृष्टान्तत्वेन प्रदर्शितम् एतद्रूपम् -
' तद्वा अस्यैतदाप्रकाममकामं रूपम्' इति तस्य हि दाट -
न्तिकभूतोऽयमर्थ उपसंहियते - अथाकामयमान इत्यादि-
ना । स कथमेवंभूतो मुच्यत इत्युच्यते - यो हि सुषुप्ताव -
स्थमिव निर्विशेषमद्वैतम् अलुप्तचिद्रूपज्योतिः स्वभावम् आ-
त्मानं पश्यति, तस्यैव अकामयमानस्य कर्माभावे गमन-
कारणाभावात् प्राणा वागादयो नोत्क्रामन्ति । किंतु विद्वान्