2026-05-06 06:30:12 by ambuda-bot
This page has not been fully proofread.
क. ६.]
चतुर्थोऽध्यायः ।
1:1
सङ्गवशात् पुनरमुं लोकं याति -
-
६१७
इत्येवम् । इति नु एवं नु,
कामयमानः संसरति । यस्मात् कामयमान एव एवं संस-
रति, अथ तस्मात्, अकामयमानो न क्वचित्संसरति ।
फलासक्तस्य हि गतिरुक्ता ; अकामस्य हि क्रियानुपपत्तेः
अकामयमानो मुच्यत एव । कथं पुनः अकामयमानो भवति ?
य: अकामो भवति, असौ अकामयमानः । कथमकामतेत्यु-
च्यते- यो निष्कामः यस्मान्निर्गता: कामाः सोऽयं नि-
कामः । कथं कामा निर्गच्छन्ति ? य आप्तकामः भवति
आप्ता: कामा येन स आप्तकामः । कथमाप्यन्ते कामा: ?
आत्मकामत्वेन, यस्य आत्मैव नान्यः कामयितव्यो वस्त्व-
न्तरभूतः पदार्थो भवति ; आत्मैव अनन्तरोऽबाह्यः कृत्स्नः
प्रज्ञानघन एकरसः नोर्ध्वं न तिर्यक् नाथः आत्मनोऽन्यत्
कामयितव्यं वस्त्वन्तरम् - यस्य सर्वमात्मैवाभूत्तत्केन कं
पश्येत्, शृणुयात्, मन्वीत विजानीयाद्वा- एवं विजा.
नन्कं कामयेत । ज्ञायमानो ह्यन्यत्वेन पदार्थः कामयितव्यो
भवति ; न चासावन्यः ब्रह्मविद आप्तकामस्यास्ति । य एवा-
त्मकामतया आप्तकामः, स निष्कामः अकाम: अकामयमा
मानश्चेति मुच्यते । न हि यस्य आत्मैव सर्वे भवति, तस्य
अनात्मा कामयितव्योऽस्ति । अनात्मा चान्यः कामयि-
सर्वे च आत्मैवाभूदिति विप्रतिषिद्धम् । सर्वात्मद
तव्यः,