Proofing

This page has not been fully proofread.

६१६
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा. ४.
 
' तत् तस्मिन्नर्थे एष श्लोकः मन्वोऽपि भवति । तदेव
एति तदेव गच्छति, सक्त आसक्तः तत्र उद्भूताभिलाष:
सन्नित्यर्थः ; कथमेति ? सह कर्मणा- कर्म फलासक्तः
 
"
 
-
 
यत्
 
सन् अकरोत् तेन कर्मणा सहैव तत् एति तत्फलमेति ;
किं तत् ? लिङ्गं मनः - मनः प्रधानत्वाल्लिङ्गस्य मनो लिङ्ग-
मित्युच्यते ; अथवा लिङ्ग्यते अवगम्यते - अवगच्छति - येन,
तत् लिङ्गम्, तत् मन: --- यत्र यस्मिन् निषक्तं निश्चयेन
सक्तम् उद्भूताभिलाषम् अस्य संसारिणः ; तदभिलाषो हि
तत्कर्म कृतवान् ; तस्मात्तन्मनोऽभिषङ्गवशादेव अस्य तेन
कर्मणा तत्फलप्राप्तिः । तेन एतत्सिद्धं भवति, कामो मूलं
संसारस्येति । अत: उच्छिन्नकामस्य विद्यमानान्यपि कर्मा-
णि ब्रह्मविदः वन्ध्याप्रसवानि भवन्ति, ' पर्याप्तकामस्य कृता-
त्मनश्च इहैव सर्वे प्रविलीयन्ति कामा: ' इति श्रुते: ।
किंच प्राप्यान्तं कर्मण:-
 

 
--
 
प्राप्य भुक्त्वा अन्तम् अवसानं
 
यावत्, कर्मणः फलेपरिसमाप्तिं कृत्वेत्यर्थः ; कस्य कर्मणो-
 
ऽन्तं प्राप्येत्युच्यते — तस्य यत्किंच कर्म इह अस्मिन्
 
-
 
'
 
लोके करोति निर्वर्तयति अयम्, तस्य कर्मण: फलं भुक्त्वा
अन्तं प्राप्य, तस्मात् लोकात् पुनः ऐति आगच्छति, अस्मै
लोकाय कर्मणे - अयं हि लोकः कर्मप्रधान:, तेनाह
'कर्मणे' इति - पुनः कर्मकरणाय ; पुनः कर्म कृत्वा फला-