2026-05-06 06:30:10 by ambuda-bot
This page has not been fully proofread.
क. ६ . ]
चतुर्थोऽध्यायः ।
६१५
अन्यमयत्वं तत् अकारणं विद्यमानमपि — इत्यतः अवधार-
यति ' काममय एव' इति । यस्मात् स च काममयः सन्
यादृशेन कामेन यथाकामो भवति, तत्क्रतुर्भवति — स
काम ईषदभिलाषमात्रेणाभिव्यक्तो यस्मिन्विषये भवति, सः
अविहन्यमानः स्फुटीभवन् क्रतुत्वमापद्यते ; क्रतुर्नाम अध्य-
वसाय: निश्चयः, यदनन्तरा क्रिया प्रवर्तते । यत्क्रतुर्भवति-
यादृक्कामकार्येण क्रतुना यथारूपः क्रतुः अस्य सोऽयं यत्क्र-
तुः भवति — तत्कर्म कुरुते यद्विषयः ऋतुः, तत्फलनिर्वृ-
-
तये यत् योग्यं कर्म, तत् कुरुते निर्वर्तयति । यत् कर्म
कुरुते, तत् अभिसंपद्यते तदीयं फलमभिसंपद्यते । तस्मात्
सर्वमग्रत्वे अस्य संसारित्वे च काम एव हेतुरिति ॥
.
-
तदेष श्लोको भवति । तदेव सक्तः
सह
कर्मणैति लिङ्गं मनो यत्र निषक्तम-
स्य । प्राप्यान्तं कर्मणस्तस्य यत्किचेह क
रोत्ययम् । तस्माल्लोकात्पुनरैत्यस्मै लोका-
य कर्मण इति नु कामयमानोऽथाकामय-
मानो यो कामी निष्काम आप्तकाम आ-
त्मकामो न तस्य प्राणा उत्क्रामन्ति ब्र-
ह्मैव सन्ब्रह्माप्येति ॥ ६ ॥