Proofing

This page has not been fully proofread.

६१४
 
बृहदारण्यकोपनिषद्भाष्ये
 
-
 
इत्याशङ्कयाह-
 
[श्री. ४.
 
पुण्य: पु-
 
ति; करणं नाम नियता क्रिया विधिप्रतिषेधादिगम्या, च-
रणं नाम अनियतमिति विशेषः । साधुकारी साधुर्भवतीति
यथाकारीत्यस्य विशेषणम् ; पापकारी पापो भवतीति च यथा-
चारीत्यस्य । ताच्छील्यप्रत्ययोपादानात् अत्यन्ततात्पर्यतैव त-
न्मयत्वम्, न तत्कर्ममात्रेण-
तु
येन कर्मणा भवति पापः पापेनेति ; पुण्यपापकर्ममात्रेणैव त-
न तु ताच्छील्यमपेक्षते ; ताच्छील्ये
तु तन्मय-
त्वातिशय इत्ययं विशेषः । तत्र कामक्रोधादिपूर्वक पुण्यापुण्य-
कारिता सर्वमयत्वे हेतु:, संसारस्य कारणम्, देहात् देहा-
न्तरसंचारस्य च एतत्प्रयुक्तो हि अन्यदन्यदेहान्तरमुपा-
दत्ते; तस्मात् पुण्यापुण्ये संसारस्य कारणम्; एतद्विषयौ हि
विधिप्रतिषेधो ; अत्र शास्त्रस्य साफल्यमिति ॥
 
न्मयता स्यात्,
 
अथो अपि अन्ये बन्धमोक्ष कुशलाः खलु आहु:--
सत्यं कामादिपूर्वके पुण्यापुण्ये शरीरग्रहणकारणम् ; तथापि
कामप्रयुक्तो हि पुरुषः पुण्यापुण्ये कर्मणी उपचिनोति ; काम-
प्रहाणे तु कर्म विद्यमानमपि पुण्यापुण्योपचयकरं न भवति;
उपचिते अपि पुण्यापुण्ये कर्मणी कामशून्ये फलारम्भके न
भवत: ; तस्मात् काम एव संसारस्य मूलम् । तथा चोक्तमा-
थर्वणे - कामान्यः कामयते मन्यमानः स कामभिर्जा-
यते तत्र तत्र' इति । तस्मात् काममय एवायं पुरुषः, यत्