2026-05-06 06:30:10 by ambuda-bot
This page has not been fully proofread.
क. ५.]
चतुर्थोऽध्यायः ।
६१३
चित्तं प्रसन्नम् अकलुषं शान्तं भवति, तन्मयः अ-
काममयः । एवं तस्मिन्विहते कामे केनचित्, सकाम:
क्रोधत्वेन परिणमते, तेन तन्मयो भवन् क्रोधमयः ।
स क्रोधः केनचिदुपायेन निवर्तितो यदा भवति, तदा प्रस
न्नम् अनाकुलं चित्तं सत् अक्रोध उच्यते, तेन तन्मयः ।
एवं कामक्रोधाभ्याम् अकामक्रोधाभ्यां च तन्मयो भूत्वा,
धर्ममयः अधर्ममयश्च भवति ; न हि कामक्रोधादिभिर्विना
धर्मादिप्रवृत्तिरुपपद्यते, 'यद्यद्धि कुरुते कर्म तत्तत्कामस्य
चेष्टितम्' इति स्मरणात् । धर्ममयः अधर्ममयश्च भूत्वा
सर्वमयो भवति -- समस्तं धर्माधर्मयोः कार्यम्, यावर्तिक-
चिद्व्याकृतम्, तत्सर्वं धर्माधर्मयोः फलम् तत् प्रतिपद्यमान:
तन्मयो भवति । किं बहुना, तदेतत् सिद्धमस्य -- यत्
अयम् इदंमयः गृह्यमाणविषयादिमयः, तस्मात् अयम् अदो-
मय: ; अद इति परोक्षं कार्येण गृह्यमाणेन निर्दिश्यते; अ-
नन्ता हि अन्तःकरणे भावनाविशेषाः; नैव ते विशेषतो
निर्देष्टुं शक्यन्ते; तस्मिंस्तस्मिन् क्षणे कार्यतोऽवगम्यन्ते-
इदमस्य हृदि वर्तते, अदः अस्येति तेन गृह्यमाणकार्येण
इदमयतया निर्दिश्यते परोक्षः अन्तःस्थो व्यवहार:- अय-
मिदानीमदोमय इति । संक्षेपतस्तु यथा कर्तुं यथा वा च-
रितुं शीलमस्य सोऽयं यथाकारी यथाचारी, सः तथा भव-
"