2026-05-06 06:30:08 by ambuda-bot
This page has not been fully proofread.
६१२
बृहदारण्यकोपनिषद्भाष्ये
[ब्रा. ४.
य: अशनायाद्यतीतः ; विज्ञानमय :- विज्ञानं बुद्धि:, तेन
उपलक्ष्यमाण:, तन्मय: ; ' कतम आत्मेति योऽयं विज्ञानमय:
प्राणेषु' इति हि उक्तम् ; विज्ञानमय: विज्ञानप्रायः यस्मात्
तद्धर्मत्वमस्य विभाव्यते - 'ध्यायतीव लेलायतीव' इति ;
तथा मनोमयः मनः संनिकर्षान्मनोमय: ; तथा प्राणमय:,
प्राणः पञ्चवृत्तिः तन्मयः, येन चेतनः चलतीव लक्ष्यते ;
तथा चक्षुर्मयः रूपदर्शनकाले; एवं श्रोत्रमयः शब्दश्रवण-
काले । एवं तस्य तस्य इन्द्रियस्य व्यापारोद्भवे तत्तन्मयो
भवति । एवं बुद्धिप्राणद्वारेण चक्षुरादिकरणमयः सन् शरी-
रारम्भक पृथिव्यादिभूतमयो भवति ; तत्र पार्थिवशरीरारम्भे
पृथिवीमयो भवति तथा वरुणादिलोकेषु आप्यशरीरारम्भे
आपोमयो भवति ; तथा वायव्यशरीरारम्भे वायुमयो भव-
ति; तथा आकाशशरीरारम्भे आकाशमयो भवति; एवम्
एतानि तैजसानि देवशरीराणि तेष्वारभ्यमाणेषु तन्मयः
तेजोमयो भवति । अतो व्यतिरिक्तानि पश्वादिशरीराणि
नरकप्रेतादिशरीराणि च अतेजोमयानि ; तान्यपेक्ष्य आह-
अतेजोमय इति । एवं कार्यकरणसंघातमयः सन् आत्मा
प्राप्तव्यं वस्त्वन्तरं पश्यन् - इदं मया प्राप्तम्,
अदो मया
प्राप्तव्यम् - इत्येवं विपरीतप्रत्ययः तदभिलाषः काममयो भ
वति । तस्मिन्कामे दोषं पश्यतः तद्विषयाभिलाषप्रशमे
;