2026-05-06 06:30:07 by ambuda-bot
This page has not been fully proofread.
क. ५.]
चतुर्थोऽध्यायः ।
६११
यथाकर्म यथाश्रुतम्, अन्येषां वा भूतानां संबन्धि - शरी-
रान्तरं कुरुते इत्यभिसंबध्यते ॥
ये अस्य बन्धनसंज्ञकाः उपाधिभूताः, यैः संयुक्तः त-
न्मयोऽयमिति विभाव्यते, ते पदार्थाः पुञ्जीकृत्य इह एकत्र
प्रतिनिर्दिश्यन्ते--
स वा अयमात्मा ब्रह्म विज्ञानमयो
मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृ-
थिवीमय आपोमयो वायुमय आकाश-
मयस्तेजोमयोऽतेजोमयः काममयोऽकाम-
मयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्म-
मयः सर्वमयस्तद्यदेतदिदमयोऽदोमय इ-
ति यथाकारी यथाचारी तथा भवति
साधुकारी साधुर्भवति पापकारी पापो
भवति पुण्यः पुण्येन कर्मणा भवति पापः
पापेन । अथो खल्वाहुः काममय एवायं
पुरुष इति स यथाकामो भवति तत्क्रतु-
भवति यत्क्रतुर्भवति तत्कर्म कुरुते य-
त्कर्म कुरुते तदभिसंपद्यते ॥ ५ ॥
सः
अयम् यः एवं संसरति आत्मा-
ब्रह्मैव पर एव,
चतुर्थोऽध्यायः ।
६११
यथाकर्म यथाश्रुतम्, अन्येषां वा भूतानां संबन्धि - शरी-
रान्तरं कुरुते इत्यभिसंबध्यते ॥
ये अस्य बन्धनसंज्ञकाः उपाधिभूताः, यैः संयुक्तः त-
न्मयोऽयमिति विभाव्यते, ते पदार्थाः पुञ्जीकृत्य इह एकत्र
प्रतिनिर्दिश्यन्ते--
स वा अयमात्मा ब्रह्म विज्ञानमयो
मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृ-
थिवीमय आपोमयो वायुमय आकाश-
मयस्तेजोमयोऽतेजोमयः काममयोऽकाम-
मयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्म-
मयः सर्वमयस्तद्यदेतदिदमयोऽदोमय इ-
ति यथाकारी यथाचारी तथा भवति
साधुकारी साधुर्भवति पापकारी पापो
भवति पुण्यः पुण्येन कर्मणा भवति पापः
पापेन । अथो खल्वाहुः काममय एवायं
पुरुष इति स यथाकामो भवति तत्क्रतु-
भवति यत्क्रतुर्भवति तत्कर्म कुरुते य-
त्कर्म कुरुते तदभिसंपद्यते ॥ ५ ॥
सः
अयम् यः एवं संसरति आत्मा-
ब्रह्मैव पर एव,