Proofing

This page has not been fully proofread.

६१०
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ ब्रा. ४.
 
तद्यथा पेशस्कारी पेशसो मात्रामपा-
दायान्यन्नवतरं कल्याणतर ५ रूपं तनुत
एवमेवायमात्मेदः शरीरं निहत्याविद्यां
गमयित्वान्यन्नवतरं कल्याणतरः रूपं
कुरुते पित्र्यं वा गान्धर्व वा दैवं वा
प्राजापत्यं वा ब्राह्मं वान्येषां वा भूता-
नाम् ॥ ४ ॥ .
 
'
 
';
 
तत् तत्र एतस्मिन्नर्थे यथा पेशस्कारी - पेश : सुवर्णम्
तत् करोतीति पेशकारी सुवर्णकारः, पेशसः सुवर्णस्य मा-
त्राम्, अप आदाय अपच्छिद्य गृहीत्वा अन्यत् पूर्वस्मात्
रचनाविशेषात् नवतरम् अभिनवतरम्, कल्याणात् कल्या-
णतरम्, रूपं तनुते निर्मिनोति एवमेवायमात्मेत्यादि पूर्ववत् ।
नित्योपात्तान्येव पृथिव्यादीनि आकाशान्तानि पञ्च भूतानि
यानि ' द्वे वा ब्रह्मणो रूपे' इति चतुर्थे व्याख्यातानि,
पेशः स्थानीयानि तान्येव उपमृद्य, उपमृद्य, अन्यदन्यच्च दे-
हान्तरं नवतरं कल्याणतरं रूपं संस्थानविशेषम्, देहान्तर-
मित्यर्थः कुरुते - पित्र्यं वा पितृभ्यो हितम्, पितृलोकोप-
भोगयोग्यमित्यर्थः, गान्धर्वे गन्धर्वाणामुपभोगयोग्यम्, तथा
देवानां दैवम्, प्रजापतेः प्राजापत्यम्, ब्रह्मण इदं ब्राह्मं वा,
 
"