2026-05-06 06:30:07 by ambuda-bot
This page has not been fully proofread.
क. ३.]
चतुर्थोऽध्यायः ।
६०९
गमयित्वान्यमाक्रममाक्रम्यात्मानमुपसँ
हरति ॥ ३ ॥
,
तत् तत्र देहान्तरसंचारे इदं निदर्शनम् - यथा येन
प्रकारेण तृणजलायुका तृणजलूका तृणस्य अन्तम् अवसा-
नम्, गत्वा प्राप्य, अन्यं तृणान्तरम्, आक्रमम् - आक्रम्यत
इत्याक्रम:- तमाक्रमम्, आक्रम्य आश्रित्य आत्मानम्
आत्मनः पूर्वावयवम् उपसंहरति अन्त्यावयवस्थाने; एवमेव
अयमात्मा यः प्रकृत: संसारी इदं शरीरं पूर्वोपात्तम्, नि-
हत्य स्वप्नं प्रतिपित्सुरिव पातयित्वा अविद्यां गमयित्वा अचे-
तनं कृत्वा स्वात्मोपसंहारेण, अन्यम् आक्रमम् तृणान्तरमिव
तृणजलूका शरीरान्तरम् गृहीत्वा प्रसारितया वासनया,
आत्मानमुपसंहरति, तत्र आत्मभावमारभते — यथा स्वप्ने
देहान्तरस्थ एव शरीरारम्भदेशे - आरभ्यमाणे देहे जङ्गमे
स्थावरे वा । तत्र च कर्मवशात् करणानि लब्धवृत्तीनि संह-
न्यन्ते ; बाह्यं च कुश मृत्तिकास्थानीयं शरीरमारभ्यते ; तत्र
च करणव्यूहमपेक्ष्य वागाद्यनुग्रहाय अग्न्यादिदेवताः संश्र-
यन्ते । एष देहान्तरारम्भविधिः ॥
'
तत्र देहान्तरारम्भे नित्योपात्तमेव उपादानम् उपमृद्य उ-
पद्य देहान्तरमारभते, आहोस्वित् अपूर्वमेव पुन: पुनरा
दत्ते - . इत्यत्र उच्यते दृष्टान्तः-