Proofing

This page has not been fully proofread.

६०८
 
r
 
;
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ ब्रा. ४.
 
भवति, आहोस्वित् शरीरस्थस्य संकुचितानि करणानि मृत-
स्य भिन्नघटप्रदीप प्रकाशवत् सर्वतो व्याप्य पुनः देहान्तरा-
रम्भे संकोचमुपगच्छन्ति - किंच मनोमात्रं वैशेषिकसमय
इव देहान्तरारम्भदेशं प्रति गच्छति, किं वा कल्पनान्तरमेव
वेदान्तसमये - इत्युच्यते-- ' त एते सर्व एव समाः सर्वे-
ऽनन्ता:' इति श्रुतः सर्वात्मकानि तावत्करणानि, सर्वात्म-
कप्राणसंश्रयाश्च तेषाम् आध्यात्मिकाधिभौतिकपरिच्छेदः
प्राणिकर्मज्ञानभावनांनिमित्त:; अतः तद्वशात् स्वभावत: सर्व-
गतानामनन्तानामपि प्राणानां कर्मज्ञानवासनानुरूपेणैव दे-
हान्तरारम्भवशात् प्राणानां वृत्तिः संकुचति विकसति च ;
तथा चोक्तम् ' सम: प्लुषिणा समो मशकेन समो नागेन
सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण' इति ; तथा च इदं
वचनमनुकूलम् -- स यो हैताननन्तानुपास्ते' इत्यादि, 'तं
यथा यथोपासते' इति च । तत्र वासना पूर्वप्रज्ञाख्या वि-
द्याकर्मतन्त्रा जलूकावत् संतव स्वप्नकाल इव कर्मकृतं देहा-
देहान्तरम् आरभते हृदयस्थैव पुनर्देहान्तरारम्भे देहान्तरं
पूर्वाश्रयं विमुञ्चति - इत्येतस्मिन्नर्थे दृष्टान्त उपादीयते--
तद्यथा तृणजलायुका तृणस्यान्तं ग
स्वान्यमाक्रममाक्रम्यात्मानमुपस ँ हरत्ये-
वमेवायमात्मेदः शरीरं निहत्याविद्यां
 
'