2026-05-06 06:30:05 by ambuda-bot
This page has not been fully proofread.
चतुर्थोऽध्यायः ।
६०७
क. २.]
नुभववासनेत्यर्थः सा च वासना अपूर्वकर्मारम्भे कर्मवि-
पाके च अङ्गं भवति ; तेन असावपि अन्वारभते ; न हि
तया वासनया विना कर्म कर्तुं फलं च उपभोक्तुं शक्यते ;
न हि अनभ्यस्ते विषये कौशलम् इन्द्रियाणां भवति ; पूर्वा-
नुभववासनाप्रवृत्तानां तु इन्द्रियाणाम् इह अभ्यासमन्तरेण
कौशलमुपपद्यते ; दृश्यते च केषांचित् कासुचित्क्रियासु चि
कर्मादिलक्षणा विनैव इह अभ्यासेन जन्मत एव कौश-
लम्, कासुचित् अत्यन्त सौकर्ययुक्तास्वपि अकौशलं केषां-
चित् ; तथा विषयोपभोगेषु स्वभावत एव केषांचित् कौश-
लाकौशले दृश्येते ; तच्च एतत्सर्वं पूर्वप्रज्ञोद्भवानुद्भवनिमित्तम् ;
तेन पूर्वप्रज्ञया विना कर्मणि वा फलोपभोगे वा न कस्य -
चित् प्रवृत्तिरुपपद्यते । तस्मात् एतत् त्रयं शाकटिकसंभार-
स्थानीयं परलोकपथ्यदनं विद्याकर्मपूर्व प्रज्ञाख्यम् । यस्मात्
विद्याकर्मणी पूर्वप्रज्ञा च देहान्तरप्रतिपत्त्युपभोगसाधनम्,
तस्मात् विद्याकर्मादि शुभमेव समाचरेत् यथा इष्टदेहसंयो-
गोपभोगौ स्याताम् — इति प्रकरणार्थ: ॥
"
एवं विद्यादिसंभारसंभृतो देहान्तरं प्रतिपद्यमान:, मु-
क्त्वा पूर्व देहम्, पक्षीव वृक्षान्तरम्, देहान्तरं प्रतिपद्यते ;
अथवा आतिवाहिकेन शरीरान्तरेण कर्मफलजन्मदेशं नी-
यते । किंचान्रस्थस्यैव सर्वगतानां करणानां वृत्तिलाभो.
S. B. U. II. 17