2026-05-06 06:30:04 by ambuda-bot
This page has not been fully proofread.
६०६
बृहदारण्यकोपनिषद्भाष्ये
[ब्रा. ४.
अनुगच्छति विशेषविज्ञानोद्भासितमेवेत्यर्थः । तस्मात् तत्काले
स्वातन्त्र्यार्थे योगधर्मानुसेवनम् परिसंख्यानाभ्यासश्च विशि
पुण्योपचयश्च श्रद्दधानैः परलोकार्थिभिः अप्रमत्तैः कर्तव्य
इति । सर्वशास्त्राणां यत्नतो विधेयोऽर्थ:- दुश्चरिताच उप-
रमणम् । न हि तत्काले शक्यते किंचित्संपादयितुम्, कर्म-
णा नीयमानस्य स्वातन्त्र्याभावात् । ' पुण्यो वै पुण्येन कर्म-
णा भवति पापः पापेन ' इत्युक्तम् । एतस्य ह्यनर्थस्य उप-
शमोपायविधानाय सर्वशाखोपनिषदः प्रवृत्ताः । न हि तद्वि-
हितोपायानुसेवनं मुक्त्वा आत्यन्तिकः अस्य अनर्थस्य उप-
शमोपायः अस्ति । तस्मात् अत्रैव उपनिषद्विहितोपाये यत्न-
परैर्भवितव्यम् -- इत्येष प्रकरणार्थः ॥
शकटवत्संभृतसंभार उत्सर्जन्यातीत्युक्तम्, किं पुनः
तस्य परलोकाय प्रवृत्तस्य पथ्यदनं शाकटिकसंभारस्थानी-
यम्, गत्वा वा परलोकं यत् भुङ्क्ते, शरीराद्यारम्भकं च यत्
तत्किम् इत्युच्यते--- तं परलोकाय गच्छन्तमात्मानम्,
विद्याकर्मणी - विद्या च कर्म च विद्याकर्मणी, विद्या सर्वप्र-
कारा विहिता प्रतिषिद्धा च अविहिता अप्रतिषिद्धा च,
तथा कर्म विहितं प्रतिषिद्धं च अविहितमप्रतिषिद्धं च,
समन्वारभेते सम्यगन्वारभेते अन्वालभेते अनुगच्छतः ;
पूर्वप्रज्ञा च - पूर्वानुभूतविषया प्रज्ञा पूर्वप्रज्ञा अतीतकर्मफला-