Proofing

This page has not been fully proofread.

क. २.]
 
,
 
चतुर्थोऽध्यायः ।
 
६०५
 
मीति स प्राणमसृजत' इति । तत्र च आत्मचैतन्यज्योतिः
सर्वदा अभिव्यक्ततरम् ; तदुपाधिद्वारा हि आत्मनि जन्म-
मरणगमनागमनादिसर्वविक्रियालक्षण: संव्यवहारः; तदा-
त्मकं हि द्वादशविधं करणं बुद्धयादि, तत् सूत्रम्, तत्
जीवनम् सोऽन्तरात्मा जगत: तस्थुषश्च । तेन प्रद्योतेन
हृदयाप्रप्रकाशेन निष्क्रममाणः केन मार्गेण निष्क्रामतीत्यु-
च्यते -चक्षुष्टो वा, आदित्यलोकप्राप्तिनिमित्तं ज्ञानं कर्म वा
यदि स्यात् ; मूर्ध्नो वा ब्रह्मलोकप्राप्तिनिमित्तं चेत्; अन्येभ्यो
वा शरीरदेशेभ्यः शरीरावयवेभ्यः यथाकर्म यथाश्रुतम् । तं
विज्ञानात्मानम्, उत्क्रामन्तम् परलोकाय प्रस्थितम्, परलो-
काय उद्भूताकूतमित्यर्थः, प्राण: सर्वाधिकारिस्थानीयः राज्ञ
इव अनूत्क्रामति; तं च प्राणमनूत्क्रामन्तं वागादयः सर्वे
प्राणा अनूत्क्रामन्ति । यथाप्रधानान्वाचिख्यासा इयम्, न तु
क्रमेण सार्थवत् गमनम् इह विवक्षितम् । तदा एष आत्मा स-
विज्ञानो भवति स्वप्न इव विशेषविज्ञानवान् भवति कर्मवशात्,
न स्वतन्त्रः; स्वातन्त्र्येण हि सविज्ञानत्वे सर्वः कृतकृत्यः स्यात् ;
नैव तु तत् लभ्यते ; अत एवाह व्यास:- -' सदा तद्भावभा-
वित:' इति कर्मणा तु उद्भाव्यमानेन अन्तःकरणवृत्तिविशेषा-
श्रितवासनात्मक विशेषविज्ञानेन सर्वो लोकः एतस्मिन्काले स-
विज्ञानो भवति ; सविज्ञानमेव च गन्तव्यम् अन्ववक्रामति
 
--