Proofing

This page has not been fully proofread.

६०४
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ ब्रा. ४.
 
मूनों वान्येभ्यो वा शरीरदेशेभ्यस्तमु
त्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्का-
मन्तँ सर्वे प्राणा अनूत्क्रामन्ति सवि-
ज्ञानो भवति सविज्ञानमेवान्ववक्रामति ।
तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ॥
 
एकी भवति करणजातं स्वेन लिङ्गात्मना, तदा एनं
पार्श्वस्था आहु:- पश्यतीति ; तथा प्राणदेवतानिवृत्तौ प्राण-
मेकी भवति लिङ्गात्मना, तदा न जिघ्रतीत्याहु: । समान-
मन्यत् । जिह्वायां सोमो वरुणो वा देवता, तन्निवृत्त्यपेक्षया
न रसयते इत्याहु: । तथा न वदति न शृणोति न मनुते न
स्पृशति न विजानातीत्याहुः । तदा उपलक्ष्यते देवतानिवृत्तिः,
करणानां च हृदय एकीभावः । तत्र हृदये उपसंहृतेषु करणेषु
योऽन्तर्व्यापारः स कथ्यते-- तस्य ह एतस्य प्रकृतस्य हृ-
-दयस्य हृदयच्छिद्रस्येत्येतत्, अग्रम् नाडीमुखं निर्गमनद्वा-
रम्, प्रद्योतते, स्वप्नकाल इव, स्वेन भासा तेजोमात्रादान-
-कृतेन, स्वेनैव ज्योतिषा आत्मनैव च तेन आत्मज्योतिषा
प्रद्योतेन हृदयाप्रेण एष आत्मा विज्ञानमयो लिङ्गोपाधिः
निर्गच्छति निष्क्रामति । तथा आथर्वणे ' कस्मिन्नवहमुत्का-
-न्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्या-