2026-05-06 06:30:01 by ambuda-bot
This page has not been fully proofread.
६०२
-
बृहदारण्यकोपनिषद्भाष्ये
'
[ब्रा. ४.
लीभाव: आत्मन इव लक्ष्यते लौकिकैः; तथा च वक्तारो
भवन्ति - संमूढः संमूढोऽयमिति । अथ वा उभयत्र इवश-
ब्दप्रयोगो योज्यः -- अबल्यमिव न्येत्य संमोहमिव न्येतीति,
उभयस्य परोपाधिनिमित्तत्वाविशेषात् समानकर्तृकनिर्दे-
शाञ्च । अथ अस्मिन्काले एते प्राणाः वागादयः एनमात्मा-
नमभिसमायन्ति ; तदा अस्य शारीरस्यात्मनः अङ्गेभ्य: सं-
प्रमोक्षणम् । कथं पुनः संप्रमोक्षणम्, केन वा प्रकारेण आ-
स्मानमभिसमायन्तीत्युच्यते सः आत्मा, एतास्तेजो मात्रा:
तेजसो
"
मात्रा: तेजोमात्रा: तेजोवयवाः रूपादिप्रकाशकत्वात्,
चक्षुरादीनि करणानीत्यर्थः, ता एताः समभ्याददानः सम्यक्
निर्लेपेन अभ्याददान: आभिमुख्येन आददानः संहरमाण: ;
तत् स्वप्नापेक्षया विशेषणं ' सम्' इर्ति; न तु स्वप्ने निर्लेपेन
सम्यगादानम्; अस्ति तु आदानमात्रम्; 'गृहीता वाकू'
'गृहीतं चक्षुः
अस्य लोकस्य सर्वावतो मात्रामपादाय '
'शुक्रमादाय' इत्यादिवाक्येभ्यः । हृदयमेव पुण्डरी-
काकाशम् अन्ववक्रामति अन्वागच्छति, हृदयेऽभिव्यक्तवि-
ज्ञानो भवतीत्यर्थः - बुद्ध्यादिविक्षेपोपसंहारे सति न हि
तस्य स्वतश्चलनं विश्लेपोपसंहारादिविक्रिया वा, " ध्यायतीव
लेलायतीव' इत्युक्तत्वात् ; बुद्धयाद्युपाधिद्वारैव हि सर्ववि-
क्रिया अध्यारोप्यते तस्मिन् । कदा पुनः तस्य तेजोमात्रा -