2026-05-06 06:30:02 by ambuda-bot
This page has not been fully proofread.
चतुर्थं ब्राह्मणः ॥
स यत्रायमात्मा । संसारोपवर्णनं प्रस्तुतम् ; 'तत्रायं
पुरुष एभ्योऽङ्गेभ्यः संप्रमुच्य' इत्युक्तम् । तत्संप्रमोक्षणं
कस्मिन्काले कथं वेति सविस्तरं संसरणं वर्णयितव्यमि-
त्यारभ्यते—
स यत्रायमात्माबल्यं न्येत्य संमोह-
मिव न्येत्यथैनमेते प्राणा अभिसमायन्ति
स एतास्तेजोमात्राः समभ्याददानो हृद
यमेवान्ववक्रामति स यत्रैष चाक्षुषः पु-
रुषः परापर्यावर्ततेऽथारूपज्ञो भवति ॥
सोऽयम् आत्मा प्रस्तुत:, यत्र यस्मिन्काले, अबल्यम्
अबलभावम् नि एत्य गत्वा - यत् देहस्य दौर्बल्यम्,
तत् आत्मन एव दौर्बल्यमित्युपचर्यते ' अबल्यं न्येत्य' इति ;
नासौ स्वतः अमूर्तस्वात् अबलभावं गच्छति — तथा सं-
मोहमिव संमूढता संमोह : विवेकाभावः संमूढतामिव न्येति
निगच्छति ; न चास्य स्वतः संमोह: असंमोहो वा अस्ति,
नित्य चैतन्यज्योति:स्वभावत्वात्; तेन इवशब्द:- संमोहमिव
न्येतीति; उत्क्रान्तिकाले हि करणोपसंहारनिमित्तो व्याकु
,