2026-05-06 06:30:00 by ambuda-bot
This page has not been fully proofread.
६००
बृहदारण्यकोपनिषद्भाष्ये
[ब्रा. ३.
तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्ये-
नसः सूतग्रामण्यो ऽभिसमायन्त्येवमेवेम
मात्मानमन्तकाले सर्वे प्राणा अभिस-
मायन्ति यत्रैतदृयच्छासी भवति ॥३८॥
इति तृतीयं ब्राह्मणम् ।
;
तमेवं जिगमिषुं के सह गच्छन्ति ये वा गच्छन्ति, ते
किं तत्क्रियाप्रणुन्नाः, आहोस्वित् तत्कर्मवशात् स्वयमेव ग
च्छन्ति - परलोकशरीरकर्तृणि च भूतानीति । अत्रोच्यते
दृष्टान्तः-- तद्यथा राजानं प्रयियासन्तम् प्रकर्षेण यातुमि-
च्छन्तम्, उग्रा: प्रत्येनसः सूतग्रामण्यः तं यथा अभिस-
मायन्ति आभिमुख्येन समायन्ति एकीभावेन तमभिमुखा
आयन्ति अनाज्ञप्ता एव राज्ञा केवलं तज्जिगमिषाभिज्ञा:,
एवमेव इममात्मानं भोक्तारम् अन्तकाले मरणकाले सर्वे
प्राणाः वागादयः अभिसमायन्ति । यत्रैतदूर्ध्वोच्छ्रासी भव-
तीति व्याख्यातम् ॥
इति चतुर्थाध्यायस्य तृतीयं ब्राह्मणम् ॥
*