2026-05-06 06:30:01 by ambuda-bot
This page has not been fully proofread.
क. ३७.]
चतुर्थोऽध्यायः ।
५९९
सूतग्रामण्योऽन्नैः पानैरावसथैः प्रतिकल्प-
न्तेऽयमायात्ययमागच्छतीत्येव हैवंवि-
द सर्वाणि भूतानि प्रतिकल्पन्त इदं
ब्रह्मायातीदमागच्छतीति ॥ ३७ ॥
,
तत् तत्व यथा राजानं राज्याभिषिक्तम् आयान्तं स्वराष्ट्रे,
उग्रा: जातिविशेषाः क्रूरकर्माणो वा, प्रत्येनसः - प्रति प्रति
एनसि पापकर्मणि नियुक्ताः प्रत्येनसः, तस्करादिदण्डनादौ
नियुक्ताः, सूताश्च ग्रामण्यश्च सूतग्रामण्य:- सूता: वर्णसं-
करजातिविशेषाः, ग्रामण्यः ग्रामनेतारः, ते पूर्वमेव राज्ञ
आगमनं बुड्ढा, अन्नैः भोज्यभक्ष्यादिप्रकारैः, पानै: मदिरा-
दिभिः, आवसथैश्व प्रसादादिभिः प्रतिकल्पन्ते निष्पन्नैरेव
प्रतीक्षन्ते - अयं राजा आयाति अयमागच्छतीत्येवं वद-
यथा अयं दृष्टान्तः, एवं ह एवंविदं कर्मफलस्य
वेदितारं संसारिणमित्यर्थः ; कर्मफलं हि प्रस्तुतम् तत् एवं-
शब्देन परामृश्यते ; सर्वाणि भूतानि शरीरकर्तृणि, करणानु
ग्रहीतृणि च आदित्यादीनि तत्कर्मप्रयुक्तानि कृतैरेव कर्म-
फलोपभोगसाधनैः प्रतीक्षन्ते — इदं ब्रह्म भोक्तृ कर्तृ च
अस्माकम् आयाति, तथा इदमागच्छतीति एवमेव च कृत्वा
प्रतीक्षन्त इत्यर्थः ॥
न्तः
"