2026-05-06 06:29:59 by ambuda-bot
This page has not been fully proofread.
५९८
बृहदारण्यकोपनिषद्भाष्ये
[ ब्रा. ३.
देहात् देहान्तरम् असकृत् गतवान् यथा स्वप्नबुद्धान्तौ पुनः
पुनर्गच्छति तथा, पुनः प्रतिन्यायम् प्रतिगमनं यथागत-
मित्यर्थः, प्रतियोनिं योनिं योनिं प्रति कर्म श्रुतादिवशात्
आद्रवति ; किमर्थम् ? प्राणायैव प्राणव्यूहायैवेत्यर्थः ; सप्राण
एव हि गच्छति, तत: ' प्राणायैव' इति विशेषणमनर्थ-
कम्; प्राणव्यूहाय हि गमनं देहात् देहान्तरं प्रति ; तेन हि
अस्य कर्मफलोपभोगार्थसिद्धिः, न प्राणसत्तामात्रेण । तस्मा-
त् तादर्थ्यार्थी युक्तं विशेषणम्- प्राणव्यूहायेति ॥
,
,
तत्र अस्य इदं शरीरं परित्यज्य गच्छतः न अन्यस्य देहा-
न्तरस्योपादाने सामर्थ्यमस्ति देहेन्द्रियवियोगात्; न च
अन्ये अस्य भृत्यस्थानीयाः, गृहमिव राज्ञे, शरीरान्तरं कृत्वा
प्रतीक्षमाणा विद्यन्ते; अथैवं सति कथम् अस्य शरीरान्त-
रोपादानमिति । उच्यते - सर्व ह्यस्य जगत् स्वकर्मफलो -
पभोगसाधनत्वाय उपात्तम्; स्वकर्मफलोपभोगाय च अयं
प्रवृत्तः देहाद्देहान्तरं प्रतिपित्सुः; तस्मात् सर्वमेव जगत्
स्वकर्मणा प्रयुक्तं तत्कर्मफलोपभोगयोग्यं साधनं कृत्वा प्रती-
क्षत एव, ' कृतं लोकं पुरुषोऽभिजायते' इति श्रुतेः- यथा
स्वप्नात् जागरितं प्रतिपित्सोः । तत्कथमिति लोकप्रसिद्धो
दृष्टान्त उच्यते—–
तद्यथा राजानमायान्तमुग्राः प्रत्येनसः