2026-05-06 06:29:58 by ambuda-bot
This page has not been fully proofread.
क. ३६.]
चतुर्थोऽध्यायः ।
५९७
ततः अन्नरसेन अनुपचीयमानः पिण्डः कार्यमापद्यते, तदु-
च्यते - उपतपता वेति ; अणिमानं निगच्छति । यदा अ-
त्यन्तकायै प्रतिपन्नः जरादिनिमित्तैः, तदा ऊर्ध्वोच्छ्रासी
भवति यदा ऊर्ध्वोच्छ्रासी, तदा भृशाहितसंभारशकटवत्
उत्सर्जन्याति । जराभिभवः रोगादिपीडनं कार्यापत्तिश्च
शरीरवतः अवश्यंभाविन एतेऽनर्था इति वैराग्याय इदमुच्यते ।
यदा असौ उत्सर्जन्याति, तदा कथं शरीरं विमुभ्वतीति
दृष्टान्त उच्यते - तत् तत्र यथा आम्रं वा फलम्, उदु-
म्बरं वा फलम्, पिप्पलं वा फलम् ; विषमानेकदृष्टान्तोपा-
दानं मरणस्यानियत निमित्तत्वख्यापनार्थम् ; अनियतानि हि
मरणस्य निमित्तानि असंख्यातानि च; एतदपि वैराग्यार्थ -
मेव - यस्मात् अयम् अनेकमरणनिमित्तवान् तस्मात् स-
वदा मृत्योरास्ये वर्तते इति । बन्धनात् — बध्यते येन वृ-
न्तेन सह, स बन्धनकारणो रमः, यस्मिन्वा बध्यत इति
वृन्तमेव उच्यते बन्धनम् — तस्मात् रसात् वृन्ताद्वा बन्ध-
नात् प्रमुच्यते वाताद्यनेकनिमित्तम्; एवमेव अयं पुरुष:
लिङ्गात्मा लिङ्गोपाधिः एभ्योऽङ्गेभ्यः चक्षुरादिदेहावयवे-
-
भ्यः,
संप्रमुच्य सम्यङ्निर्लेपेन प्रमुच्य - न सुषुप्त-
गमनकाल इव प्राणेन रक्षन्, किं तर्हि सह वायुना
उपसंहृत्य, पुनः प्रतिन्यायम् — पुनः शब्दात् पूर्वमपि अयं