Proofing

This page has not been fully proofread.

५९६
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा. ३.
 
दृश्यमानस्याप्यनुवदनं वैराग्यहेतो: ; ईदृशः कष्टः खलु अयं
संसार : - येन उत्क्रान्तिकाले मर्मसु उत्कृत्यमानेषु स्मृति-
लोपः दुःखवेदनार्तस्य पुरुषार्थ साधनप्रतिपत्तौ च असामर्थ्य
परवशीकृतचित्तस्य; तस्मात् यावत् इयमवस्था न आगमि -
व्यति, तावदेव पुरुषार्थसाधन कर्तव्यतायाम् अप्रमत्तो भ
वेत् — इत्याह कारुण्यात् श्रुतिः ॥
 
स यत्रायमणिमानं न्येति जरया वो-
पतपता वाणिमानं निगच्छति तद्यथाम्र
वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्य-
त एवमेवायं पुरुष एभ्योऽङ्गेभ्यः संप्रमुच्य
पुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणा-
यैव ॥ ३६ ॥
 
तदस्य ऊर्ध्वोच्छ्रासत्वं कस्मिन्काले किंनिमित्तं कथं कि-
मर्थे वा स्यादित्येतदुच्यते - सोऽयं प्राकृतः शिरः पाण्यादि-
मान् पिण्डः, यत्र यस्मिन्काले अयम् अणिमानम् अणोर्भावम्
अणुत्वम् कार्यमित्यर्थः, न्येति निगच्छति ; किंनिमित्तम् ?
जरया वा स्वयमेव कालपक्कफलवत् जीर्णः काश्यं गच्छति
उपतपतीति उपतपन् ज्वरादिरोगः तेन उपतपता वा ; उप-
तप्यमानो हि रोगेण विषमाग्नितया अन्नं भुक्तं न जरयति,