Proofing

This page has not been fully proofread.

क. ३५.]
 
चतुर्थोऽध्यायः । .
 
५९५
 
यथा लोके अनः शकटम्, सुसमाहितं सुष्ठु भृशं वा समा-
हितम् भाण्डोपस्करणेन उलूखलमुसलशूर्पपिठरादिना अन्ना-
द्येन च संपन्नम् संभारेण आक्रान्तमित्यर्थः ; तथा भाराक्रा-
न्तं सत्, उत्सर्जत् शब्दं कुर्वत्, . यथा यायात् गच्छेत् शा-
कटिकेनाधिष्ठितं सत्; एवमेव यथा उक्तो दृष्टान्तः, अयं
शारीरः शरीरे भवः - कोऽसौ ? आत्मा लिङ्गोपा-
धिः, य: स्वप्नबुद्धान्ताविव जन्ममरणाभ्यां पाप्मसंस-
र्गवियोगलक्षणाभ्याम् इहलोक परलोकावनुसंचरति, यस्यो-
त्क्रमणमनु प्राणाद्युत्क्रमणम् -- सः प्राज्ञेन परेण आ-
त्मना स्वयंज्योतिः स्वभावेन अन्वारूढः अधिष्ठितः अवभा-
स्यमानः- तथा चोक्तम् ' आत्मनैवायं ज्योतिषास्ते पल्य-
यते ' इति — उत्सर्जन्याति । तत्र चैतन्यात्मज्योतिषा भास्ये
लिङ्गे प्राणप्रधाने गच्छति, तदुपाधिरण्यात्मा गच्छतीव ;
तथा श्रुत्यन्तरम् — 'कस्मिन्न्वहम्' इत्यादि, ' ध्यायतीव '
इति च ; अत एवोक्तम् - प्राज्ञेनात्मनान्वारूढ इति ; अ-
न्यथा प्राज्ञेन एकीभूतः शकटवत् कथम् उत्सर्जयन् याति ।
तेन लिङ्गोपाधिरात्मा उत्सर्जन् मर्मसु निकृत्यमानेषु दुःख-
वेदनया आर्तः शब्दं कुर्वन् याति गच्छति । तत् कस्मि-
न्काले इत्युच्यते - यत्र एतद्भवति एतदिति क्रियाविशे-
षणम्, ऊर्ध्वोच्छ्वासी, यत्र ऊर्ध्वोच्छ्रासित्वमस्य भवतीत्यर्थः ।