Proofing

This page has not been fully proofread.

५९४
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ना. ३.
 
रित्युक्तम् ; यथा च असौ कार्यकरणानि मृत्युरूपाणि परि-
त्यजन् उपादानश्च महामत्स्यवत् स्वप्नबुद्धान्तावनु संचरति,
तथा जायमानो म्रियमाणश्च तैरेव मृत्युरूपैः संयुज्यते
वियुज्यते च - 'उभौ लोकावनुसंचरति ' इति संचरणं स्व-
प्रबुद्धान्तानुसंचारस्य दान्तिकत्वेन सूचितम् । तदिह वि-
स्तरेण सनिमित्तं संचरणं वर्णयितव्यमिति तदर्थोऽयमार-
म्भः । तत्र च बुद्धान्तात् स्वप्नान्तम् अयमात्मा अनुप्रवेशि-
तः ; तस्मात् संप्रसादस्थानं मोक्षदृष्टान्त भूतम् ; ततः प्राच्यव्य
बुद्धान्ते संसारव्यवहार प्रदर्शयितव्य इति तेन अस्य संब-
वै बुद्धान्तात् स्वप्नान्तक्रमेण संप्रसन्नः एषः एत-
स्मिन् संप्रसादे स्थित्वा ततः पुनः ईषत्प्रच्युतः - स्वप्नान्ते
रत्वा चरित्वेत्यादि पूर्ववत् - बुद्धान्तायैव आद्रवति ॥
 
न्धः । स
 
तद्यथानः सुसमाहितमुत्सर्जद्यायादे-
मेवाय शारीर आत्मा प्राज्ञेनात्मना -
न्वारूढ उत्सर्जन्याति यत्रैतदूवच्छा-
सी भवति ॥ ३५ ॥
 
इत आरभ्य अस्य संसारो वर्ण्यते । यथा अयमात्मा
स्वप्नान्तात् बुद्धान्तमागतः ; एवम् अयम् अस्माद्देहात् देहा-
न्वरं प्रतिपत्स्यत इति आह अत्र दृष्टान्तम् — तत् तत्र
 
-