2026-05-06 06:29:57 by ambuda-bot
This page has not been fully proofread.
क. ३४.]
चतुर्थोऽध्यायः ।
न्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥
५९३
अत्र विज्ञानमय: स्वयंज्योति: आत्मा स्वप्ने प्रदर्शितः,
स्वप्नान्तबुद्धान्तसंचारेण कार्यकरणव्यतिरिक्तता, कामकर्म-
प्रविवेकश्च असङ्गतया महामत्स्यदृष्टान्तेन प्रदर्शित: ; पुनश्च
अविद्याकार्य स्वप्न एव 'नन्तीव' इत्यादिना प्रदर्शितम् ;
अर्थात् अविद्यायाः सतत्त्वं निर्धारितम् अतद्धर्माध्यारोपण-
रूपत्वम् अनात्मधर्मत्वं च; तथा विद्यायाश्च कार्य प्रदर्शि-
तमू, सर्वात्मभावः, स्वप्ने एवं प्रत्यक्षत: - 'सर्वोऽस्मीति
मन्यते सोऽस्य परमो लोक:' इति ; तत्र च सर्वात्मभाव:
स्वभावोऽस्य एवम् अविद्याकामकर्मादिसर्व संसारधर्मसंब-
न्धातीतं रूपमस्य, साक्षात् सुषुप्ते गृह्यते-- इत्येतद्विज्ञापितम् ;
स्वयं ज्योतिरात्मा एषः परम आनन्दः, एष विद्याया विषय:,
स एष परमः संप्रसादः, सुखस्य च पराकाष्ठा - इत्येतत्
एवमन्तेन ग्रन्थेन व्याख्यातम् । तच्च एतत् सर्वं विमोक्षप-
दार्थस्य दृष्टान्तभूतम्, बन्धनस्य च; ते च एते मोक्षबन्धने
सहेतुके प्रपचे निर्दिष्टे विद्याविद्याकार्ये, तत्सर्वं दृष्टान्त-
भूतमेव - इति, तद्दान्तिकस्थानीये मोक्षबन्धने सहेतुके
कामप्रश्नार्थभूते त्वया वक्तव्ये इति पुन: पर्यनुयुङ्क्ते जन-
क:- अत उर्ध्व विमोक्षायैव ब्रूहीति । तत्र महामत्स्यवत्
स्वप्रबुद्धान्तौ असङ्गः संचरति एक आत्मा स्वयंज्योति -