Proofing

This page has not been fully proofread.

५९२
 
r
 
बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३.
 
उत्तरानन्दप्राप्तिसाधने अभ्युपेयेते; अकामहतत्वं तु वैरा.
ग्यतारतम्योपपत्तेः उत्तरोत्तर भूम्यानन्दप्राप्तिसाधनमित्यवग-
म्यते । स एष परम: आनन्दः वितृष्णश्रोत्रियप्रत्यक्षः अधि-
गत: । तथा च वेदव्यासः --- ' यश्च कामसुखं लोके यच
दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नाईतः षोडशीं क-
लाम्' इति । एष ब्रह्मलोक:, हे सम्राट् — इति ह उवाच
याज्ञवल्क्यः । सोऽहम् एवम् अनुशिष्टः भगवते तुभ्यम्
सहस्रं ददामि गवाम्; अत ऊर्ध्वं विमोक्षायैव ब्रूहि - इति
व्याख्यातमेतत् । अत्र ह विमोक्षायेत्यस्मिन्वाक्ये, याज्ञ-
वल्क्यः बिभयांचकार भीतवान् ; याज्ञवल्क्यस्य भयकार-
णमाह श्रुतिः— न याज्ञवल्क्यो वक्तृत्वसामर्थ्याभावाद्भी-
तवान्, अज्ञानाद्वा ; किं तर्हि मेधावी राजा सर्वेभ्यः, मा
माम्, अन्तेभ्यः प्रश्ननिर्णयावसानेभ्यः, उदरौत्सीत् आवृ-
णोत् अवरोधं कृतवानित्यर्थः ; यद्यत् मया निर्णीतं प्रश्नरूपं
विमोक्षार्थम्, तत्तत् एकदेशत्वेनैव कामप्रश्नस्य गृहीत्वा पुनः
पुनः मां पर्यनुयुक्त एव, मेधावित्वात् — इत्येतद्भयका-
रणम् — सर्वे मदीयं विज्ञानं कामप्रश्नव्याजेन उपादि -
त्सतीति ॥
 
स वा एष एतस्मिन्स्वप्नान्ते रत्वा च-
 
रित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रति-