2026-05-06 06:29:56 by ambuda-bot
This page has not been fully proofread.
क. ३३.]
चतुर्थोऽध्यायः ।
५९१
एव उत्पत्तित एव ये देवाः, ते आजानदेवाः ; यश्च श्रोत्रियः
अधीतवेदः, अवृजिनः वृजिनं पापम् तद्रहितः यथोक्तका -
रीत्यर्थः, अकामत: वीततृष्णः आजानदेवेभ्योऽर्वाक् याव
न्तो विषया: तेषु — तस्य च एवंभूतस्य आजानदेवैः स-
मान आनन्द इत्येतदन्वाकृष्यते च शब्दात् । तच्छतगुणीकृत-
परिमाण: प्रजापतिलोके एक आनन्दो विराट्शरीरे; तथा
तद्विज्ञानवान् श्रोत्रियः अधीतवेदश्च अवृजिन इत्यादि पूर्व-
वत् । तच्छतगुणीकृतपरिमाण एक आनन्दो ब्रह्मलोके हि-
रण्यगर्भात्मनि ; यश्चेत्यादि पूर्ववदेव । अतः परं गणितनि-
वृत्ति: ; एष परम आनन्द इत्युक्तः, यस्य च परमानन्दस्य
ब्रह्मलोकाद्यानन्दा मात्रा:, उदधेरिव विप्रुषः । एवं शतगु-
,
णोत्तरोत्तरवृद्धयुपेता अनन्दाः यत्र एकतां यान्ति, यश्च श्रो-
त्रियप्रत्यक्षः, अथ एष एव संप्रसादलक्षणः परम आनन्दः ;
तन्त्र हि नान्यत्पश्यति नान्यच्छृणोति ; अतो भूमा, भूम-
त्वादमृतः ; इतरे तद्विपरीताः । अत्र च श्रोत्रियत्वावृजिनत्वे
तुल्ये; अकामहतत्वकृतो विशेष: आनन्दशतगुणवृद्धिहेतुः ;
अत्र एतानि साधनानि श्रोत्रियत्वावृजिनत्वाकामहतत्वानि
तस्य तस्य आनन्दस्य प्राप्तौ अर्थादभिहितानि यथा कर्मा-
णि अग्निहोत्रादीनि देवानां देवत्वप्राप्तौ ; तत्र च श्रोत्रिय -
त्वावृजिनत्वलक्षणे कर्मणी अधरभूमिष्वपि समाने इति न
S. B. U. II. 16