Proofing

This page has not been fully proofread.

५९०
 
तत् ;
 
-
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा. ३.
 
यानि भोगोपकरणानि तै:- संपन्नानामपि अतिशयेन सं-
पन्न: संपन्नतम:- स मनुष्याणां परम आनन्दः । तत्र
आनन्दानन्दिनो: अभेदनिर्देशात् न अर्थान्तरभूतत्वमित्ये-
परमानन्दस्यैव इयं विषयविषय्याकारेण मात्रा प्रसृ-
तेति हि उक्तम् 'यत्र वा अन्यदिव स्यात्' इत्यादिवाक्येन ;
तस्मात् युक्तोऽयम् -' परम आनन्द:' इत्यभेद निर्देश: । युधि -
ष्ठिरादितुल्यो राजा अत्र उदाहरणम् । दृष्टं मनुष्यानन्दम्
आदिं कृत्वा शतगुणोत्तरोत्तरक्रमेण उन्नीय परमानन्दम्,
यत्र भेदो निवर्तते तमधिगमयति ; अत्र अयमानन्दः शत-
गुणोत्तरोत्तरक्रमेण वर्धमानः यत्र वृद्धिकाष्ठामनुभवति, यत्र
गणितभेदो निवर्तते, अन्यदर्शनश्रवणमननाभावात्, तं पर-
मानन्दं विवक्षन् आह- अथ ये मनुष्याणाम् एवंप्रकारा:
शतमानन्दभेदाः, स एकः पितृणाम् ; तेषां विशेषणम् - जि.
तलोकानामिति श्राद्धादिकर्मभिः पितृन् तोषयित्वा तेन
कर्मणा जितो लोको येषाम्, ते जितलोका: पितरः ; तेषां
पितृणां जितलोकानां मनुष्यानन्दशतगुणीकृतपरिमाण एक
आनन्दो भवति । सोऽपि शतगुणीकृतः गन्धर्वलोके एक
आनन्दो भवति । स च शतगुणीकृत: कर्मदेवानाम् एक
आनन्दः ; अग्निहोत्रादिश्रौतकर्मणा ये देवत्वं प्राप्नुवन्ति, ते
कर्मदेवाः । तथैव आजानदेवानाम् एक आनन्द: ; आजानत
 
:;