Proofing

This page has not been fully proofread.

५८८
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा. ३
 
"श्यति अन्यद्विजानाति, तत् अल्पं मर्त्यम् अमुख्यं सुखम् ;
इदं तु तद्विपरीतम् ; अत एव एषोऽस्य परम आनन्दः । एत-
स्यैव आनन्दस्य मात्रां कलाम् अविद्याप्रत्युपस्थापितां विष-
येन्द्रियसंबन्धकालविभाव्याम् अन्यानि भूतानि उपजीव-
न्ति; कानि तानि ? तत एव आनन्दात् अविद्यया प्रवि-
भज्यमानस्वरूपाणि, अन्यत्वेन तानि ब्रह्मणः परिकल्प्यमा-
नि अन्यानि सन्ति उपजीवन्ति भूतानि विषयेन्द्रियसं-
-पर्कद्वारेण विभाव्यमानाम् ॥
 
"
 
स यो मनुष्याणा राद्धः समृद्धो भव-
त्यन्येषामधिपतिः सर्वैर्मानुष्यकैर्भोगैः सं-
पन्नतमः स मनुष्याणां परम आनन्दो -
ऽथ ये शतं मनुष्याणामानन्दाः स एकः
पितॄणां जितलोकानामानन्दोऽथ ये शतं
पितॄणां जितलोकानामानन्दाः स एको
गन्धर्वलोक आनन्दोऽथ ये शतं गन्धर्व-
लोक आनन्दाः स एकः कर्मदेवानामान -
न्दो ये कर्मणा देवत्वमभिसंपद्यन्तेऽथ ये
शतं कर्मदेवानामानन्दाः स एक आजा-
नदेवानामानन्दो यश्च श्रोत्रियोsवृजिनो