Proofing

This page has not been fully proofread.

क. ३२. ]
 
j
 
चतुर्थोऽध्यायः ।
 
५८७.
 
अत्र, अतः एकः द्रष्टा दृष्टेरविपरिलुप्तत्वात् आत्मज्योति:-
स्वभावाया: ; अद्वैतः : द्रष्टव्यस्य द्वितीयस्याभावात् । एतत्
अमृतम् अभयम् ; एष ब्रह्मलोकः, ब्रह्मैव लोक: ब्रह्मलोक: ;
पर एव अयम् अस्मिन्काले व्यावृत्तकार्यकरणोपाधिभेदः
स्वे
वे आत्मज्योतिषि शान्तसर्वसंबन्धो वर्तते, हे सम्राट् -
इति ह एवं ह, एनं जनकम् अनुशशास अनुशिष्टवान् याज्ञव-
ल्क्यः इति श्रुतिवचनमेतत् । कथं वा अनुशशास ? एषा अस्य
विज्ञानमयस्य परमा गतिः ; यास्तु अन्याः देहग्रहणलक्षणाः
ब्रह्मादिस्तम्बपर्यन्ता: अविद्याकल्पिताः, ता गतयः अतः अप-
रमाः, अविद्याविषयत्वात्; इयं तु देवत्वादिगतीनां कर्मविद्या-
साध्यानां परमा उत्तमा यः समस्तात्मभाव:, यत्र नान्यत्प-
श्यति नान्यच्छृणोति 'नान्यद्विजानातीति । एषैव च परमा
संपत्— सर्वासां संपदां विभूतीनाम् इयं परमा, स्वाभावि
कत्वात् अस्याः ; कृतका हि अन्याः संपदः । तथा एषो-
sta परमो लोकः ; ये अन्ये कर्मफलाश्रया लोकाः, ते अ-
स्मात् अपरमा:; अयं तु न केनचन कर्मणा मीयते, स्वा-
भाविकत्वात् ; एषोऽस्य परमो लोकः । तथा एषोऽस्य परम
आनन्दः ; यानि अन्यानि विषयेन्द्रियसंबन्धजनितानि आन-
न्दजातानि तान्यपेक्ष्य एषोऽस्य परम आनन्दः, नित्यत्वात् ;
'यो वै
भूमा तत्सुखम्' इति श्रुत्यन्तरात्; यत्र अन्यत्प--
 
,
 
:;