Proofing

This page has not been fully proofread.

५८६
 
बृहदारण्यकोपनिषद्भाष्ये
 
[त्रा. ३.
 
विद्याप्रत्युपस्थापितात् अन्यः अन्यमिव आत्मानं मन्यमानः
- असति आत्मनः प्रविभक्ते वस्त्वन्तरे, असति च आत्मनि
ततः प्रविभक्तेः, अन्य: अन्यत् पश्येत् उपलभेत ; तच्च दर्शितं
स्वप्ने प्रत्यक्षतः- 'घ्नन्तीव जिनन्तीव ' इति । तथा अन्यः
अन्यत् जिघ्रेत् रसयेत् वदेत् शृणुयात् मन्वीत स्पृशेत् वि-
जानीयादिति ॥
 
सलिल एको द्रष्टाद्वैतो भवत्येष ब्रह्म-
लोकः सम्राडिति हैनमनुशशास याज्ञ-
वल्क्य एषास्य परमा गतिरेषास्य परमा
संपदेषोऽस्य परमो लोक एषोऽस्य परम
आनन्द एतस्यैवानन्दयान्यानि भूतानि
मात्रामुपजीवन्ति ॥ ३२ ॥
 
यत्र पुनः सा अविद्या सुषुप्ते वस्त्वन्तरप्रत्युपस्थापिका
शान्ता, तेन अन्यत्वेन अविद्याप्रविभक्तस्य वस्तुनः अभा-
वात् तत् केन कं पश्येत् जिघेत् विजानीयाद्वा । अतः
स्वेनैव हि प्राज्ञेन आत्मना स्वयंज्योतिः स्वभावेन संपरिष्व-
 
"
 
क्तः समस्त: संप्रसन्न: आप्तकामः आत्मकामः, सलिलवत्
स्वच्छीभूतः - सलिल इव सलिल:, एकः द्वितीयस्याभा-
अविद्यया हि द्वितीयः प्रविभज्यते ; सा च शान्ता
 
चात् ;