2026-05-06 06:29:52 by ambuda-bot
This page has not been fully proofread.
क. ३१.]
चतुर्थोऽध्यायः ।
५८५
च क्रिया नैव अविशेषे संभवति ; एवं धर्मभेदा नैव सन्त्या -
काशे । तथा परमाण्वादावपि । परमाणुर्नाम पृथिव्या गन्ध-
घनायाः परमसूक्ष्मः अवयवः गन्धात्मक एव ; न तस्य पुनः
गन्धवत्त्वं नाम शक्यते कल्पयितुम् अथ तस्यैव रसादिम-
त्त्वं स्यादिति चेत्, न तत्रापि अबादिसंसर्गनिमित्तत्वात् ।
तस्मात् न निरवयवस्य अनेकधर्मवत्त्वे दृष्टान्तोऽस्ति । एतेन
दृगादिशक्तिभेदानां पृथक् चक्षूरूपादिभेदेन परिणामभेदक-
ल्पना परमात्मनि प्रत्युक्ता ॥
यत्र वा अन्यदिव स्यात्तत्रान्योऽन्य-
त्पश्येदन्योऽन्यज्जिघेदन्योऽन्यद्रसयेदन्यो-
ऽन्यद्वदेदन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वी-
तान्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात् ॥
'
जाग्रत्स्वप्रयोरिव यद्विजानीयात् तत् द्वितीयं प्रविभक्त-
मन्यत्वेन नास्तीत्युक्तम् ; अत: सुषुप्ते न विजानाति विशे-
बम् । ननु यदि अस्य अयमेव स्वभाव:, किंनिमित्तम् अस्य
विशेषविज्ञानं स्वभावपरित्यागेन ; अथ विशेषविज्ञानमेव
अस्य स्वभाव:, कस्मादेष विशेषं न विजानातीति । उच्यते,
शृणु - यत्र यस्मिन् जागरिते स्वप्ने वा अन्यदिव आत्मनो
वस्त्वन्तरमिव अविद्यया प्रत्युपस्थापितं भवति, तत्र तस्मा -