Proofing

This page has not been fully proofread.

५८४
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा. ३.
 
मेव दर्शयति ; शब्दप्रवृत्तिश्च प्रमाणम् । दृष्टान्तोपपत्तेश्व-
यथा हि लोके स्वच्छस्वाभाव्ययुक्तः स्फटिक : तन्नि-
मित्तमेव केवलं हरितनीललोहिताद्युपाधिभेदसंयोगात् तदा-
कारत्वं भजते, न च स्वच्छस्वाभाव्यव्यतिरेकेण हरि-
तनीललोहितादिलक्षणा धर्मभेदाः स्फटिकस्य कल्पयितुं
शक्यन्ते - तथा चक्षुराद्युपाधिभेदसंयोगात् प्रज्ञानघनस्वभा-
वस्यैव आत्मज्योतिषः दृष्ट्यादिशक्तिभेद उपलक्ष्यते, प्रज्ञान-
घनस्य स्वच्छस्वाभाव्यात् स्फटिकस्वच्छस्वाभाव्यवत् । स्व-
यंज्योतिष्ट्राश्च यथा च आदित्यज्योति: अवभास्यभेदैः
संयुज्यमानं हरितनीलपीतलोहितादिभेदैरविभाज्यं तदाका-
राभासं भवति, तथा च कृत्स्नं जगत् अवभासयत् चक्षुरा-
दीनि च तदाकारं भवति तथा चौक्तम्- 'आत्मनैवायं
ज्योतिषास्ते' इत्यादि । न च निरवयवेषु अनेकात्मता शक्यते
कल्पयितुम्, दृष्टान्ताभावात् । यदपि आकाशस्य सर्वगत-
स्वादिधर्मभेद: परिकल्प्यते, परमाण्वादीनां च गन्धरसाद्यने-
कगुणत्वम्, तदपि निरूप्यमाणं परोपाधिनिमित्तमेव भवति
आकाशस्य तावत् सर्वगतत्वं नाम न स्वतो धर्मोऽस्ति ; स-
र्वोपाधिसंश्रयाद्धि सर्वत्र स्वेन रूपेण सत्त्वमपेक्ष्य सर्वगतत्व-
व्यवहारः ; न तु आकाशः क्वचिद्रतो वा, अगतो वा स्वतः ;
गमनं हि नाम देशान्तरस्थस्य देशान्तरेण संयोगकारणम् ; सा
 
;
 
त ;