2026-05-06 06:29:52 by ambuda-bot
This page has not been fully proofread.
क. ३०.]
चतुर्थोऽध्यायः ।
५८३
एव एकत्वं नानात्वं च - यथा गोः गोद्रव्यतया एकत्वम्,
सास्नादीनां धर्माणां परस्परतो भेदः ; यथा स्थूलेषु एकत्वं
नानात्वं च, तथा निरवयवेषु अमूर्तवस्तुषु एकत्वं नानात्वं च
अनुमेयम्; सर्वत्र अव्यभिचारदर्शनात् आत्मनोऽपि तद्वदेव
दृष्ट्यादीनां परस्परं नानात्वम्, आत्मना चैकत्वमिति । न,
अन्यपरत्वात् -- न हि दृष्ट्यादिधर्मभेदप्रदर्शनपरम् इदं वा-
क्यम् ' यद्वै तत्' इत्यादि ; किं तर्हि, यदि चैतन्यात्मज्योतिः,
कथं न जानाति सुषुप्ते ! नूनम् अतो न चैतन्यात्मज्योतिः -
इत्येवमाशङ्काप्राप्तौ तन्निराकरणाय एतदारब्धम् 'यद्वै तत्' इ-
त्यादि । यत् अस्य जाग्रत्स्वप्नयोः चक्षुराद्यने कोपाधिद्वारं चैत-
न्यात्मज्योति: स्वाभाव्यम् उपलक्षितं दृष्ट्याद्यभिधेयव्यवहा
रापन्नम्, सुषुप्रे उपाधिभेदव्यापारनिवृत्तौ अनुद्भास्यमान-
त्वात् अनुपलक्ष्यमाणस्वभावमपि उपाधिभेदेन भिन्नमिव--
यथाप्रतानुवादेनैव विद्यमानत्वमुच्यते; तत्र दृष्टवादिधर्म-
भेदकल्पना विवक्षितार्थानभिज्ञतया; सैन्धवघनवत् प्रज्ञा-
नैकर सघनश्रुतिविरोधाश्च; 'विज्ञानमानन्दम् ' ' सत्यं ज्ञानम्
'प्रज्ञानं ब्रह्म' इत्यादिश्रुतिभ्यश्च । शब्दप्रवृत्तेश्व - लौकिकी
च शब्दप्रवृत्ति: - ' चक्षुषा रूपं विजानाति ' ' श्रोत्रेण शब्द
विजानाति ' 'रसनेनान्नस्य रसं विजानाति' इति च
सर्वत्रैव च दृष्ट्यादिशब्दाभिधेयानां विज्ञानशब्दवाच्यता-
"