2026-05-06 06:29:51 by ambuda-bot
This page has not been fully proofread.
५८२
बृहदारण्यकोपनिषद्भाष्ये
[ब्रा. ३.
न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविना-
शित्वान्न तु तद्वितीयमस्ति ततोऽन्यद्वि-
भक्तं यन्मन्वीत ॥ २८ ॥
यद्वै तन्न स्पृशति स्पृशन्वै तन्न स्पृश-
ति न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यते-
विनाशित्वान्न तु तद्वितीयमस्ति ततो-
ऽन्यद्विभक्तं यत्स्पृशेत् ॥ २९ ॥
द्वै तन्न विजानाति विजानन्वै तन्न
विजानाति न हि विज्ञातुर्विज्ञातेर्विपरि-
लोपो विद्यतेऽविनाशित्वान्न तु तद्वितीय-
मस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ॥
यद्वै
समानमन्यत्– यद्वै तन्न जिघ्रति, यद्वै तन्न रसयते,
यद्वै तन्न वदति, यद्वै तन्न शृणोति यद्वै तन्न मनुते,
तन्न स्पृशति, यद्वै तन्न विजानातीति । मननविज्ञानयो: ह-
ष्टधादिसहकारित्वेऽपि सति चक्षुरादिनिरपेक्षो भूतभविष्य-
द्वर्तमानविषयव्यापारो विद्यत इति पृथग्ग्रहणम् ॥
किं पुनः दृष्टवादीनाम् अग्नेरौष्ण्यप्रकाशनज्वलनादिवत्
धर्मभेद:, आहोस्वित् अभिन्नस्यैव धर्मस्य परोपाधिनिमित्तं
धर्मान्यत्वमिति । अत्र केचिद्व्याचक्षते - आत्मवस्तुनः स्वत